भवतु प्रसादयामि तावदेनाम् । (अनन्तरे कुटिलिका)
पसीअ पिअअम सुन्दरि एणए |
यगणमगणनगणसगणभगणाः लघुः गुरुश्च तद्वृत्तं शिखरिणी नाम । अत्र षड्भिरेकादशभिश्च यतिः ॥ ५२ ॥
वारंवारमुच्चरिताद्भवत्वितिपदान्नायकस्य विरहितस्यापि पीडितत्वेन परं सहिष्णुत्वात् धीरत्वं व्यज्यते । तावदतः एनां नदीरूपेण परिणतां प्रियां प्रसादयामि ।
[अनन्तरे कुटिलिका]
प्रसीदेति-अये सुन्दरि नदीरूपिणि प्रिये ! एनया मदीयया नत्यां सविनयं नमनेन प्रियतमे मयि प्रसीद नदीरूपं परित्यज्य मह्यमालिङ्गनदानरूपं प्रसादं कुरु । शेषं नदीसम्बोधनानि । क्षुभिताः चश्चलाः त्वदनुकारिस्वरेण मां पीडयन्त अत एव अकरुणा दयाविहीना विहङ्गमकाः यत्र तादृशि! परं च तीरे समुत्सुकाः एणका मृगा यस्याः इति तादृशि ! अलिकुलैः द्विरेफसमूहैः झङ्कारितः कल्लोलितः अर्णः जलं यस्याः तादृशि हे सुरसरित् त्वं मयि प्रसन्ना भूत्वा ललनारूपं विधाय स्वयङ्ग्राहसुखं विधेहि ।
इह हि विरहदशायां तव केशगतिस्वरानुकारिणः भृङ्गहंसपिकप्रभृतयो विहगाः: निष्ठुरं मां पीडयन्ति । तव च मत्प्रियात्वादनुचितमिदं मत्पीडकजन्तूनामाश्रयदायित्वम् पुनश्च मत्प्रतिपक्षिपक्षिपक्षग्रहणेन तवापि सुतरां निष्ठुरत्वमस्तीति ध्वन्यते।
प्रियतमेति पदं यदि सुन्दर्याः विशेषणं क्रियते तदा त्वं मम प्रियतमा, त्वयि अहमनुरक्तः इत्यर्थं सम्बोध्य त्वय्यनुरक्ते जने संरम्भस्यासाम्प्रतत्वव्यञ्जनं भविष्यतीति । पुनश्च तत्रैव प्रियतमे मयि इति मय्यध्याहारेण शाब्दबोधः क्रियते चेत् तव प्रियतमे मयि तव कोपः, वियोगजन्यदुःखश्च त्वत्कृतम् अयोग्यमिति बोधपूर्वकं प्रियतमे मयि प्रसन्नसमुचितमिति ध्वन्यते ।
विहङ्गमकैणकादिपदेषु अल्पार्थप्रतिपादकस्य कन्प्रत्ययस्य दर्शनात् विहङ्गैणकानां प्रियतमायाः स्वरनयनयोः साधर्म्यदर्शनात् भृशं सन्तापकत्वव्यञ्जनाय तेषु चानादरः प्रकटीक्रियते । सुरसरिदिति तदध्यवसितायाः नायिकायाः अप्सरोभावे युक्तं घटते विशेषणम् ॥
क्षुभितेति अत्र यदा त्वं नदीत्वं विहाय प्रमदात्वं लप्स्यसे तदा तेषामाश्रयण-