पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३

पुटमेतत् सुपुष्टितम्

॥ श्रीः॥

निवेद्यम्


 विदितचरमेवैतद्विश्वेषामेव विदुषां यद्भारतीयसाहित्यविश्वस्मिन् काव्येषु लोकोत्तरानन्दसुधास्यन्दिषु दृश्यकाव्यानां सविशेषो महिमा किलाङ्गीक्रियते "काव्येषु नाटकं रम्य"मिति भारतभूभूषणानां भणितिरणितैः। तत्रापि रूपकनिर्मातॄणामग्रणीः कविवरेण्यः कालिदास एवेति सार्वभौमं बिरुदमलं भजत्ययं महाकविरिति सहृदयानामनुभवस्त्वबाधित एव। स्वीयकाव्यकलालालित्येन भगवत्याः प्रकृत्या मनोमोददस्य नेपथ्यस्य निर्माणे, विचित्रे च चित्रचित्रणे मानवीयनिसर्गस्य, तात्कालिकसमुदाचारपरम्परायाश्चोन्मेषणेऽलोकसामान्यया खत्वभावि कविप्रतिभयेत्यपि न सन्देहलवावकाशः ।

 अमुष्य महाकवेः सुप्रसिद्धं हि रूपकत्रयं विष्टपत्रये । तत्र मालविकाग्निमित्रं नाम तत्रभवतः प्रथमं नाटकम् , तत्परं च विक्रमोर्वशीयं त्रोटकम् , तदनुजं चाभिज्ञानशाकुन्तलसमाख्यं सुविख्यातप्रख्यमसुलभौपम्यं तदीयन्नाटकमिति विपश्चितामपश्चिम एव निश्चयः। सार्वजनीनं चेदमिदानीन्तनं मतं यन्महाकवेः प्रातिस्विकरूपकनिर्माणशक्तेः प्रादुर्भावपरिचायकमादिमं नाटकम् , ततः सविशेषचमत्कारास्वादोद्बोधकं तदीयं त्रोटकम् , चरमं च नाटकं तदीयप्रतिभायाः सीमानमधिरूढमेवालौकिकानन्ददत्वेनेति ।

 यद्यपि पाश्चात्यविपश्चितां मतौघमनुप्लुतैः सुधीभिः प्रसन्नेयं विचारसरणिर्मन्येत तथापि विषयस्य क्षोदक्षमया धिया सहृदयैः सङ्ख्यावद्भिः तत्त्वमिदमनुभूतिवीथीमवतार्यते चेन्ननमाविर्भवेद्यत्तदीयं त्रोटकं शाकुन्तलापेक्षया न मनागपि विलक्षणानन्दास्वादजनकत्वे पश्चिमम् । एवं सुविचार्यैव बन्धस्वारस्यचर्वणाकर्षकतयाऽनुभूतस्यास्य विषयस्य प्रकाशनायैव नैकेषां भारतीयपाश्चात्यविदुषां वर्तमानेऽपि व्याख्यानव्रजे मान्यस्य मोहमयीस्थझेवियर्सकालेजान्तर्गतस्य प्राच्यविद्याविभागाध्यक्षस्य रेह्वरण्डझिमरमनमहानुभावस्यादेशपारवश्याच्चिकीर्षितं हि मया कालिदासीयस्यास्य प्रबन्धस्य निजनिर्मितया कल्पलतया सनाथनम् ।

 अस्मिंश्च व्याख्याने स्थाने स्थाने कवयितुः, काव्यकलायाः पाटवस्य चमत्कारकारित्वस्य च प्रकटनेन व्युत्पित्सूनां हिताय रसरीतिगुणालङ्कारादीनां स्फुटतरेण विवेचनेन प्रबन्धस्यास्य चर्वणासौकर्यसम्पादनमेव मे प्रवृत्तिनिमित्तम् । मन्ये च यन्मदीयव्याख्यानेनाभिख्यां परिपुष्यन्तीयं कल्पवल्ली समेषामेवाध्ययनादिना सेवाजुषां यथेष्टं फलं सम्पादयित्रीति ।