पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३०

पुटमेतत् सुपुष्टितम्

२४

व्रतेन गात्रं ग्लपयस्यकारणम्, प्रसादमाकांक्षति यस्तवोत्सुकः स किन्त्वया दासजनः प्रसाद्यत" इत्यनेन चाटुवचनैराराधकत्वम्, “नाहं पुनस्तथा त्वयि यथा हि मां शङ्कसे भीरु" इति आपाततः निर्दोषित्वकल्पनाय प्रार्थनापरत्वम् , तत्तादृशम् महिष्याराधनवेलायामपि नायिकायां गाढतयानुप्रविष्टहृदयत्वम् "अन्यत्कथं कलितं मम गात्रकं करस्पर्शादिति” अनेन सत्यप्रेमवत्त्वम्, सात्विकभाववत्त्वम् , “यदेवोपनतं दुःखात् सुखं तद्रसवत्तरमित्यनेन" प्रियाप्राप्त्या विलक्षणानन्दपात्रत्वम् , उदयवतीनामधेयायाः विद्याधरदारिकायाः प्रेक्षणेन सूचितं चञ्चलचित्तत्वम्, चतुर्थाङ्के च मनःसौधपाञ्चालिकायाः हिमकरकिरणावदातवर्णायाः प्रियाया उर्वश्या विप्रयोगेन सोन्मादत्वम् , संगममणिना सहयोगेन प्रसन्नत्वम् , लताभावमवाप्तायाः प्रियायाः आलिङ्गनेन स्पर्शसुखानुभवेन प्रियेय- मिति सनिश्चयत्वम् , प्रियाविरहकालेऽपि धैर्यधारणक्षमत्वम् , मणेः प्रियावाप्तिहेतुत्वात् तस्मै कृतज्ञत्वम्, सन्मानकत्वम् , आयुषः स्वतनयस्य दर्शनेन विस्मितत्वम्, “सर्वाङ्गीणः स्पर्शः सुतस्य किलानेन मामुपनतेन । आल्हादयस्व तावच्चन्द्रकरश्चन्द्रकान्तमिव" इत्यनेन सूचितं तनये सहजस्नेहसन्तानप्रवृत्तिमत्त्वम्, "अद्याहं पुत्रिणामग्र्यः जयन्तेन पुरन्दरः" इत्यनेन पुत्रावाप्तिसन्तुष्टत्वम्, उर्वश्याः भाविनं वियोगं दृष्ट्वा मूर्ञ्छितत्वम् , "प्रियाविप्रयोगेन तपसे वनगमनं वरमि"ति मत्वा सोमवंशानुसदृशं वनगमनाय कृतबुद्धित्वम् , “नहि सुलभवियोगा कर्तुमात्मप्रियाणि प्रभवति परवत्ता शासने तिष्ठ भर्तु रित्यनेन न्यायपथप्रवर्तकत्वम् , कुमारस्य यौवराज्ये प्रतिष्ठापनेन अलौकिकपुत्रस्नेहवत्त्वम्, सुसमीक्ष्यकारित्वम्, भूतेषु सानुकम्पत्वम् , नितान्तललितललनासम्भोगभोग्यभाग्यवत्त्वम् , नायिकायां स्थिरस्नेहवत्त्वम् , सभ्यत्वम् , सरसत्वम् , एवमादि नानागुणगणं वहमानः नाटकीयवस्तुसमीचीनेन धीरोदात्तलक्षणेनोपेतः नारदस्य प्रियकारितया प्रसन्नान्तरात्मा स्वकार्यनिर्वहणेन सामाजिकान् मुग्धानद्धा सम्भावयितुं प्रवृत्तः सहृदयचेतांसि प्रीणयन् नाटकस्य नायकत्वं साधु धारयन् कवये प्रशंसामाहरन् विलसतितराम् ।

 उर्वशी-इयं चाप्सरसां प्रमुखा अशेषरमणीयरमणीजनललामभूता अलङ्कारस्थाप्यलङ्करणात्मिका, मारस्य सुकुमारप्रहरणभूता, सौन्दर्यसारसर्वस्वनिकेतनं, रामणीयकत्वोपेतमिन्दोरधिदेवतात्वमाप्ता, सङ्कल्पयोनेः सङ्कल्पसिद्धिरिव, शृङ्गारसुधाभृङ्गारस्य निस्यन्दधारेव, रङ्गशाला रागशैलृषस्य, मनोजगारुडिकस्य शीकरणविद्या, धातुवादिकस्य रससिद्धिवेदः सौभाग्यसङ्गिलावण्यसन्दानितवपुषी अस्य त्रोटकस्य नायिका । केशिनाहृतायां राज्ञा पुरूरवसा च समुद्धृतायां तस्यां चक्षुषी उन्मील्य "किं प्रभावदर्शिना महेन्द्रेणाभ्युपपन्नास्मी"त्यनेन तस्याः साधारणस्त्रीत्वं व्यज्यते। "उपकृतं दानवेन्द्रसंरम्भेणेति" वाक्येन राज्ञे तस्याः कृतज्ञता प्रख्यापिता । "क्व मे सखीजनः" इत्यनेन सखीवृन्दे नितान्तप्रेमवत्त्वम् निग्धत्वं च तस्या गम्यते। समायाते तु चित्ररथे गमनायानुज्ञा गृहीतुं कृतमनस्कया तया स्वस्य व्यवहारकोविदत्वं व्यजिज्ञपि । द्वितीयाङ्के राजानं उपगच्छन्ती सा चित्रलेखां "दृढं लग्ना