पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३०७

पुटमेतत् सुपुष्टितम्
२०९
चतुर्थोऽङ्कः।

सा सुनयना तिरोहिता । (परिक्रम्यावलोक्य च) इमं तावत् प्रियाप्रवृत्तये सारङ्गमासीनमभ्यर्थये ।

अभिनवकुसुमस्तबकिततरुवरस्य परिसरे
 मदकलकोकिलकूजितमधुपझङ्कारमनोहरे ।
नन्दनविपिने निजकरिणीविरहानलेन सन्तप्तो
 विचरति गजाधिपतिरैरावतनामा ॥५६॥

(इति गलितकः) (जानुभ्यां स्थित्वा)

कृष्णसारच्छविर्योऽयं दृश्यते काननश्रिया।
नवशष्पावलोकाय कटाक्ष इव पातितः ॥ ५७ ॥


श्रेयांसि अनिर्वेदप्राप्याणि निर्वेदेन अलभ्यानि भवन्ति । शोकोद्विग्नं चेद् मानसं, श्रेयांसि न लभ्यन्ते । ग्लानिं भजमानेन पुरुषेण श्रेयांसि न प्राप्यन्ते । अतः शोकमपहाय धैर्यं धृत्वा गवेषणा विधेया इति दार्ढ्यं मनसः व्यक्तीकुर्वता कविना नायकस्य धीरवं प्रतिपादितम् । अत्र श्रेयसो निर्वेदेनाप्राप्यत्वमिति सामान्यख्यापनेन प्रकृते उर्वशीलाभरूपश्रेयसः निर्विण्णेन मया नाधिगन्तुं शक्यत्वमिति भाव्यर्थसूचनरूपतर्कस्य सद्भावात् “तुल्यतर्को यदर्थेन तर्कः प्रकृतगामिने"ति लक्षणसमन्वितं तुल्यतर्काख्यं नाट्यलक्षणमुक्तं भवति ।

 भवतु । (इदानीं प्रतिनिवर्तते राजा ।) तमेवोद्देशं स्थानं गच्छामि प्रतिनिवर्ते, यस्मिन् स्थले सा सुनयना सुदृशी मे नयनयोः तिरोहिता अगोचरतां प्राप्ता । (परिक्रम्यावलोक्य च ) इमं तावत् पुरतः आसीनमुपविष्टं सारङ्गं मृगं प्रियायाः प्रवृत्तये वार्ताप्राप्तये अभ्यर्थये प्रार्थये ।

  अभिनवेति-ऐरावतान्योक्त्या स्वविरहित्वं वर्णयति-अभिनवानि नूतनतयोत्फुल्लानि कुसुमानि तेषां स्तबकैर्गुच्छैः समेतस्य तरुवरस्य परिसरे परिधौ, मदेन कलैः मनोहारिभिः कोकिलानां कूजितैः तथा च मधुपानां भ्रमराणां झङ्कारैः गुञ्जितैः मनोहरे नन्दनाख्ये विपिने वने निजा या करिणी तस्या विरहानलेन सन्तप्तः गजाधिपतिरैरावतः विचरति । अनेन नायकस्य वने परिभ्रमणं वियोगातिरेकश्च गम्यते । अत्र द्विरेफरवे तन्त्रीध्वनिवाचकस्य झङ्कारपदस्याप्रयोज्यत्वात् प्रसिद्धिहतत्वं मम्मटमते प्रसिद्धिमतिक्रान्तत्वं वा दोषो नित्य एव ॥६५॥ गलितकः “अभिनवेति" पूर्वोक्तः गलिताख्यो नाट्यविशेषः, लक्षणं तूह्यम् ।

(जानुभ्यां स्थित्वा)

  कृष्णसारेति -कृष्णा श्यामा च सारा शबला च कृष्णसारा ताहशी च्छविः शोभा यस्यैतादृशः श्यामशबलोऽयं सारङ्गः काननश्रिया वनदेवतया नवशष्पावलोकाय मृदुबालतृणशोभाप्रेक्षणाय पातितः कटाक्ष इव दृश्यते ।