उर्वशी-मरिसदु मरिसदु महाराओ । जं मए कोववसं गदाए अवत्थंतरं पाविदो महाराओ।[मर्षयतु मर्षयतु महाराज: यन्मया कोपवशं गतयावस्थान्तरं प्रापितो महाराजः।]
राजा-नाहं प्रसादयितव्यस्त्वया । त्वद्दर्शनेन प्रसन्नो मे सबाह्यान्तरात्मा । तत्कथय कथमियन्तं कालं मया विरहिता स्थितासि ।
(अनन्तरे चर्चरी)
मोरा परहुअ हंस रहंग |
उर्षषि-मर्षयतु मर्षयतु महाराजः, क्षन्तव्यो हि ममापराधः कोपवशं गतया मया अवस्थान्तरं प्रापितः । कोपोपहतमानसया मया महाराजः अन्यामेव अवस्थां प्रापित इति मदीयोऽपराधः क्षन्तव्यः ।
राजा-अहन्त्वया प्रसादयितव्यः आराधनीयो नास्मि । मां प्रसन्नं कर्तुं त्वया यत्नो न कार्यः। यतः त्वद्दर्शनेन मे सबाह्यन्तरात्मा बहिःकरणानि अन्तःकरणञ्च प्रसन्नानि । बहिरन्तश्चाहं मुदितोऽस्मि त्वदीयदर्शनसौभाग्येन अतः मां प्रीणयितुं मा यतेथाः। तत्कथय त्वं कथं इयन्तं कालं मया विरहिता वियुक्ता स्थितासि । इयन्तमित्यनिर्वचनीयमिति भावः । समयस्यानेन दीर्घत्वम् प्रकाशितम् । इह नाहं प्रसादयितव्य इति स्थले प्रियाप्राप्तिरूपबीजकार्योपगमनाद् आदानं नाम विमर्शसन्ध्यङ्गमुक्तं भवति “कार्यसङ्ग्रह आदान"मिति लक्षणात् ॥
(अनन्तरे चर्चरी)
मयूरेति -तव कारणेन त्वामन्वेष्टुं कानने वने भ्रमता त्वल्लाभाभावाद् रुदता मया मयूरः, परभृत् कोकिल:, हंसः, रथाङ्गश्चक्रवाकः, अलिर्भ्रमरः, गजः, पर्वतः, कुरङ्गः सारङ्गः इत्यादयः तथा च को वान्यो न पृष्टः । अपि तु सर्वेऽपि पृष्टाः प्रत्युत्तरस्यालाभादपमानोऽपि सोढः इति सारः । त्वदर्थं रुदता अरण्ये भ्रमता च मया ये केचन मध्ये मिलिताः ते सर्वेऽपि पृष्टा इत्यर्थः ।