पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३१८

पुटमेतत् सुपुष्टितम्
२२०
विक्रमोर्वशीये

 उर्वशी-

 अन्तक्करणपच्चक्खीकिदवुत्तन्तो महाराओ।
 [अन्तःकरणप्रत्यक्षीकृतवृत्तान्तो महाराजः।]

 राजा-प्रिये ! अन्तःकरणमिति न खल्ववगच्छामि ।

 उर्वशी-सुणादु महाराओ । पुरा भअवदा महासेणेण सासदं कुमारव्वदं गेण्हिअ अकलुसो णाम गन्धमादणकच्छो अज्झासिदो। किदा अ स्थिदी । [शृणोतु महाराजः । पुरा भगवता महासेनेन शाश्वतं कुमारव्रतं गृहीत्वा अकलुषो नाम गन्धमादनकच्छोऽध्यासितः। कृता च स्थितिः।]

 राजा-कीदृशी।

 उर्वशी-जा किल इथिआ इमं देसं आगमिस्सदि सा लदाभाएण परिणदा भविस्सदि । किदो अ सावान्तो गोरीचरणराअसंभवं मणिं वज्जिअ लदाभावं ण मुंचिस्सदि त्ति । तदो अहं गुरुसावसंमूढहिअआ विसुमरिदेवदाणिअमा अम्हका-


अत्र छादनं नाम विमर्शसन्ध्यङ्गं लभ्यते, यल्लक्षणं दर्पणे "कार्यार्थमपमानादेः सहनं खलु यद्भवेत्..."तदाहुश्छादनं पुनः" ॥ ७० ॥

 उर्वशी-अन्तःकरणेन मनसा प्रत्यक्षीकृतो दृष्टः वृत्तान्तः यस्य सः एतादृशो महाराजः अस्ति । यद्यद् भवद्भिः मम कृते प्रलपितं तत्सर्वं मया मनसा परिज्ञातम् । भवतो हृदयं जानत्या मया सर्वं विश्वस्यतेऽलं प्रतिपादनेनेति भावः । अत्र “अनुनयो" नाम नाट्यलक्षणम् ।

 राजा-प्रिये! अन्तःकरणमिति पदेन तवार्थं न खलु अवगच्छामि । किन्ते तात्पर्यमिति नावगतं मया।

 उर्वशी-शृणोतु महाराजः । इदानीं सर्वं शापकारणादिकं प्रकटीकरोति । पुरा प्राचीनसमये भगवता महासेनेन शाश्वतं निरन्तरं कुमारव्रतं ब्रह्मचर्यव्रतं गृहीत्वा अकुलषो नाम, गन्धेन सौरभेण मादयति मत्तं करोति इति तच्छीलः कच्छो जलप्रायप्रदेशः अध्यासितः वासाय स्वीकृतः । पुरा महासेनः नैष्ठिकं व्रतं गृहीत्वा अकलुषाख्ये जलाशये न्यवसत् । तेन एषा स्थितिर्मर्यादा कृता ।

 राजा-कीदृशी च सा मर्यादा इति शेषः ।

 उर्वशी -या किल स्त्री इमं देशं अकलुषाख्यं कच्छं आगमिष्यति सा लताभावेन लतारूपेण परिणता भविष्यति । लतात्वं प्राप्स्यतीति भावः । तथा च महासेनेन शापान्तः शापादस्मान्मुक्त्युपायः कृतः यत् गौर्याश्चरणरागात् सम्भूतं