पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३१९

पुटमेतत् सुपुष्टितम्
२२१
चतुर्थोऽङ्कः

जणपरिहरणीअं कुमारवणं पविट्ठा । पवेसाणन्तरं अ काणणोवन्तवत्तिलदाभाएण परिणदं मे रूवम् । [या किल स्त्री इमं देशं आगमिष्यति सा लताभावेन परिणता भविष्यति । कृतश्च शापान्तः गौरीचरणरागसम्भवं मणिं वर्जयित्वा लताभावं न मोक्ष्यतीति । ततोऽहं गुरुशापसम्मूढहृदया विस्मृतदेवतानियमा खीजनपरिहरणीयं कुमारवनं प्रविष्टा । प्रवेशानन्तरञ्च काननोपान्तवर्तिलताभावेन परिणतं मे रूपम् ।]

  राजा-प्रिये! सर्वमुपपन्नम् ।

  रतिखेदसुप्तमपि मां शयने या मन्यसे प्रवासगतम् ।
  सा त्वमिहैतदवस्थं कथं सहेथाश्चिरवियोगम् ॥ ७१ ॥

 इदं चैतद्यथाकथितं सङ्गमनिमित्तं पुनरुपलब्धप्रभावमस्माभिः ।

(इति मणिं दर्शयति)

 उर्वशी-कधं संगमणीओ अ मणी । अदो एव्व महाराएण आलिङ्गिदा ज्जेव एदंवत्थम्हि संवुत्ता । [कथं सङ्गमनीयोऽयं मणिः अत एव महाराजेनालिङ्गितैवेतदवस्थास्मि संवृत्ता।]


मणिं सगमनीयं वर्जयित्वा अपहाय सा स्त्री लताभावं न मोक्ष्यति त्यक्ष्यति । मणिं विना शापमोचनमसम्भवीति भावः । ततश्च गुरोः भरताचार्यस्य द्वितीयाङ्के वर्णितात् शापात् संमूढं हृदयं यस्याः सा एतादृशी अहं विस्मृतदेवतानियमाविज्ञातदेवमर्यादा सती स्त्रीजनैः परिहरणीयं त्याज्यम् कुमारवनं प्रविष्टा । प्रवेशानन्तरश्च काननस्य वनस्य उपान्ते समीपे लताभावेन मे रूपम् परिणतं जातम् । अहं लतात्वं प्राप्ता।

 राजा-प्रिये ! सर्वमिदं यत्त्वयोक्तम् तदुपपन्नम् युक्तम् ।

 रतीति या त्वं पुरा रतिः सम्भोगः तज्जन्येन खेदेन श्रमेण शयने सुप्तमपि माम् प्रवासगतम् विप्रकृष्टमिव मन्यसे सा त्वं इह एतदवस्थं एवं प्रकारकम् अनिर्वचनीयमीदृशं वा चिरकालीनं वियोगम् कथं सहेथाः ।

 या त्वं पुरा एकस्मिन्नेव शयने त्वया सह सुप्तमपि मां विप्रकृष्टमिव मत्वा पीडिताऽभवः सा एव त्वं कथमिदं विलक्षणं विरहं सोढवती इत्यर्थः । अत्रापि "अनुनयो" नाम नाट्यलक्षणम् । आर्या जातिः ॥ ७१॥

 इदञ्च मत्पाणौ यथा कथितं यथा त्वया प्रतिपादितं तादृशमेव सङ्गमनिमित्तं समागमहेतुं उपलब्धप्रभावं सङ्गमशक्तियुक्तं रत्नं मयासादितमस्तीति शेषः । (इति मणिं दर्शयति)-

 । उर्वशी-कथं सङ्गमनीयोऽयं मणिः । अत एव महाराजेन आलिङ्गिता.