पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३२३

पुटमेतत् सुपुष्टितम्
पञ्चमोऽङ्कः

(ततः प्रविशति हृष्टो विदूषकः)

  विदूषकः-ही ही भो, दिट्ठिआ चिरस्स कालस्स उव्वसीसहाओ तत्तभवं राआ णंदणवणप्पमुहेसु पदेसेषु विहरिअ पडिणिवुत्तो । पविसिअ णअरं दाणीं सकजाणुसासणेण पइदिमण्डलं अणुरज्जअन्तो रज्जं करेदि । असंताणत्तणं वज्जिअ से ण किं वि सोअणीअम् । अज्ज तिहिविसेसो त्ति भअवदीणं गङ्गाजमुणाणं संगमे देवीए सह किदाहिसेओ संपदं उवआरिअं उवविठ्ठो । ता जाव अलंकरणीयमाणस्स अङ्गाणुलेवणमल्लभाई भादुओ विअ होमि । ( इति परिकामति)

 (नेपथ्ये) हद्धी हद्धी । एसो तालावन्तपिधाणं णिक्खिविअ णीअमाणो अच्छराविरहिदेण मोलिरअणदाए योइदो मणी आमिससङ्किणा गिद्धेण आक्खित्तो। [ही ही भोः! दिष्ट्या चिरस्य कालस्योर्वशीसहायः तत्र भवान् राजा नन्दनवनप्रमुखेषु


पञ्चमोऽङ्कः।

 अथ स्वस्वस्थानेषु यथाक्रम सन्निवेशितान् मुखसन्ध्यादिरूपानार्थान् एकत्वेन योजयितुं निर्वणसन्धिगर्भं चरममङ्कमारभते । तल्लक्षणं यथा धानञ्जये "बीजवन्तो मुखाद्यर्थाः विप्रकीर्णा यथायथम् । ऐकार्यमुपनीयन्ते यत्र निर्वहणं हि तत् ।"

 इदानीं विदूषकमुखेनाग्रिमकथोपन्यासार्थं तत्प्रवेशमाह ततः प्रविशति हृष्टः परितुष्टो हृष्टमना विदूषकः । ही ही भोः इति आश्चर्ये । दिष्ट्या सौभाग्यमिदम् यत् चिरस्य कालस्य भूयसा समयेन उर्वशीसहायः तत्रभवान् मान्यो राजा नन्दनवनप्रमुखेषु इन्द्रनगरोपवनादिषु बहुषु रमणीयेषु प्रदेशेषु विहृत्य विहारं कृत्वा प्रतिनिवृत्तः प्रत्यागतः । इदानी नगरं प्रतिष्ठानाख्यं प्रविश्य स्वकार्यानुशासनेन राजकार्यावलोकनेन प्रकृतिमण्डलं प्रजागणमनुरञ्जयन् प्रसादयन् राज्यं करोति । असन्तानत्वं अपत्यविहीनत्वं वर्जयित्वा विहाय अस्य राज्ञः किमपि शोचनीयम् न, सर्वमन्यदनुगुणं केवलमस्य निरपत्यता त्रासयित्री । अद्य स राजा तिथिविशेषः कश्चन पर्वविशेषः इति हेतोः भगवत्योः गङ्गायमुनयोः सङ्गमे देव्या महिष्या सह कृताभिषेकः विहितमज्जनः सन् साम्प्रतम् अधुना उपकार्या पटभवनम् (tent) उपविष्टः स्थितः । तद् यावत् अलक्रियमाणस्य भूष्यमाणस्य तस्य राज्ञः अङ्गेषु अनुलेपनम् कुङ्कुममृगमदाधुद्वर्तनं तथा च माल्यं