पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३२५

पुटमेतत् सुपुष्टितम्
२२७
पञ्चमोऽङ्कः

प्रवेशका

 (ततः प्रविशति राजा सूतश्च कञ्चुकिवेधको परिजनश्च )

राजा-वेधक वेधक!

 आत्मनो वधमाहर्ता क्वासौ विहगतस्करः ।
 येन तत्प्रथमं स्तेयं गोप्तुरेव गृहे कृतम् ॥१॥

किरात:-एसो अग्गमुहलग्गहेमसूत्तेण मणिणा अणुरज्जअन्तो विअ आआसं भमदि । [एष अग्रमुखलग्नहेमसूत्रेण मणिना अनुरञ्जयन्निवाकाशं भ्रमति । ]

राजा-पश्याम्येनम् -

 असौ मुखालम्बितहेमसूत्रं बिभ्रन्मणिं मण्डलशीघ्रचारः ।
 अलातचक्रप्रतिमं विहङ्गस्तद्रागलेखावलयं तनोति ॥२॥


शिखारत्नम् परमबहुमतः प्रियतमः, अत एव असमाप्तनेपथ्यः अपरिगृहीतसकलपरिधानः वस्त्रादिकम् अपरिधायैव वा आसनतः राजसिंहासनतः उत्थितः । तत् अतः तव पार्श्वपरिवर्ती समीपस्थः भवामि । इति निष्क्रान्तः । प्रवेशकः-लक्षणम् यथापूर्वमेव ।

 (ततः प्रविशति राजा सूतः सारथिः, कञ्चकी वृद्धान्तःपुरसंचारी सेवकः, वेधकः कश्चन किरातः, अन्यपरिजनश्च । ) वेधकस्थाने रेचक इति पाठान्तरम् । राजा वेधकमाहूय पृच्छति ।

 आत्मन इति-आत्मनः स्वस्य वधम् विनाशरूपं मणिं आहर्ता सम्पादयिता स विहगेषु तस्करः चोरः क्व अस्ति येन पक्षिचोरेण प्रथमं स्तेयं चौर्यम् गोप्तुः लोकानां पालकस्य ममैव गृहे कृतम् । येन खगचोरेण आदौ प्रजानां पालकस्य मम एव गृहे चौर्यं कृतम् स चोरः गृध्रः क्व गतः। तात्पर्यन्तु स मणिं नाहरत् किन्तु आत्मनो वधमेवाहरत् इति वधस्य अत्र मणितादात्म्याभिसम्बन्धात् रूपकमलङ्कारः । तथाच गोप्तुरिति पदस्य विशेषतया साभिप्रायत्वात्परिकरालङ्कृतिश्च । अनुष्टुब् वृत्तम् ॥ १॥

  किरात:-एष अग्रमुखे मुखाग्रे लग्नम् हेमसूत्रम् सुवर्णसूत्रं यस्य तादृशेन मणिना आकाशमनुरञ्जयन् रक्तं कुर्वन्निव भ्रमति ।


 अत्र उत्प्रेक्षालङ्कारः॥

 राजा-पश्याम्येनं विहङ्गचोरम् ।

 असाविति-असौ गगने लक्ष्यमाणः मुखे आलम्बितं गृहीतं हेमसूत्रं कनकदोरकं यस्य तादृशं मणिं बिभ्रत् धारयन् विहङ्गमः मण्डलं मण्डलाकारं वर्तुलं तथा शीघ्रं लरितं यस्मिन् कर्मणि तद्यथा स्यात्तथाभूतश्चारो गतिः यस्य तादृशः मण्डलाकारगमनेन त्वरितवेगः सन् अलातं ज्वलत्काष्ठं तस्य चक्रं