पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३२७

पुटमेतत् सुपुष्टितम्
२२९
पञ्चमोऽङ्कः

राजा-(दृष्ट्वा) इदानीम्-

प्रभापल्लवितेनासौ करोति मणिना खगः।
अशोकस्तबकेनेव दिङ्युस्वस्यावतंसकम् ॥ ३ ॥

यवनी-(धनुर्हस्ता प्रविश्य) भट्टा! एदं ससरं चावम् । [भर्तः, इदं सशरं चापम् । ]

राजा-किमिदानीं धनुषा । बाणपथातीतः क्रव्यभोजनः ।

तथाहि-

आभाति मणिविशेषो दूरमिदानीं पतत्रिणा नीतः।
नक्तमिव लोहिताङ्गः परुषघनच्छेदसम्पृक्तः ॥ ४ ॥


 राजा-(दृष्ट्वा ) इदानीम्-

 प्रभेति - असौ खगः प्रभया तेजसा पल्लवितेन दीप्तेन अशोकस्तवकेन अशोककुसुमगुच्छेन इव मणिना दिङ्मुखस्य दिशः मुखस्य अवतंसकं कर्णभूषणं करोति। अत्र दिशः नायिकाखकल्पनम् । सा च कर्णभूषणं परिधत्ते । खगस्तु नायकः। स अवतंसं परिधापयति । प्रायशः सुकुमारा ललनाः कुसुमस्तबकमवतंसयन्ति । स्ववपुषः गौरत्वात् रक्तकुसुमगुच्छं परं भूषयतेततराम् । नायकस्तु खगः दिशं नायिकामनेन रक्ताशोककुसुमस्तबकप्रतिमारुणिम्ना मणिना दिङ्मुखमवतंसयतीत्यर्थः । अत्र दिशः नायिकात्वसंभावनेन, मणेरवतंसत्वविभावनेन उत्प्रेक्षालङ्कृतिः। अशोकस्तबकेति उपमानात् उपमालङ्कारश्च । अनुष्टुप् वृत्तम् ॥ ३ ॥   यवनी-काचन प्रतिहारी-(धनुर्हता धनुर्गृहीत्वा प्रविश्य ) भर्तः, इदं सशरं सबाणं चापम् धनुरिति ।

 राजा-धनुषा चापेन इदानीं किं प्रयोजनम्-व्यर्थमिदानीं धनुः । यतः सः क्रव्यभोजनः मांसाशनः विहगः बाणपथातीतः बाणमार्गमतिक्रान्तः, दूरदेशं प्राप्त इत्यर्थः । तथाहि-

  आभातीति-पतत्रिणा पक्षिणा इदानीं दूरं दूरदेशं नीतः मणिविशेषः उत्कृष्टः स मणिः नकं रात्रौ परुषेषु अविरलेषु निबिडेषु इत्यर्थः कर्वुरितेषु वा 'घनानां मेघानां छेदेषु संपृक्तः संयुक्तः दृश्यमान इत्यर्थः लोहिताङ्गः मङ्गलाख्यो प्रहविशेष इव आभाति ।

 भौमस्तु रक्तं नक्षत्रम् । रक्तं चेदं रत्नम् । यथा मेघेषु भौमो दूरतः सुन्दरमाभाति तथैव विहङ्गमेन अतिदूरं नीतो मणिप्रवर आभातीति तात्पर्यम् ।

 अत्र सहृदयैकगम्यचमत्कारशोभितमिदं उपमालङ्करणम् । “परुषं कर्बुरे रूक्षे स्थानिष्ठुरवचस्यपि" इति हैमः । कर्बुरितं च "विरकसन्ध्यापरुषं पुरस्ताद्यथा

 २. विक्र०