पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३२८

पुटमेतत् सुपुष्टितम्
२३०
विक्रमोर्वशीये

 आर्य लातव्य।

 कञ्चकी-आज्ञापयतु देवः।

 राजा-मद्वचनादुच्यन्तां नागरिकाः सायं निवासवृक्षाग्रे विचीयतां विहगाधमः।

 कञ्चकी-यथाज्ञापयति देवः । (इति निष्क्रान्तः)

 विदूषकः-भोः ! विसमीअदु भवं संपदं । कहिं गदो सो रअणुकुम्मीलओ भवादो सासणादो मुंचिस्सदि । [भोः। विश्राम्यतु भवान् साम्प्रतम् । कुत्र गतः स रत्नकुम्भीलकः भवतः शासनान्मोक्ष्यते ।]

(इत्युपविशतः)

 राजा-वयस्य!

रत्नमिति न मे तस्मिन् मणौ प्रयासो विहङ्गमोत्क्षिप्ते ।
प्रियया तेनास्मि सखे सङ्गमनीयेन सङ्गमितः ॥५॥


रजः पार्थिवमुज्जिहीते" इत्यनेकार्थकैरवाकारकौमुदी ॥ 'अङ्गारकः कुजो भौमो लोहिताङ्गो महीसुतः' इत्यमरः । इयमार्या जातिः॥४॥

 आर्य लातव्येति कञ्चुकिनः सम्बोधनम् ।

 कञ्चुकी-आज्ञापयतु देवः।

 राजा-मद्वचनात् मदाज्ञया उच्यन्तां समादिश्यन्तां नागरिकाः नगरनिवासिनोजनाः यत् सायं समये निवासवृक्षाग्रे स्ववासनीडाश्रये वृक्षे स विहगाधमः विचीयतामन्वेष्यताम् ।

 कञ्चुकी -यथा आज्ञापयति तथैवास्तु । (इति निष्क्रान्तः)

 विदूषकः-भो वयस्य ! विश्राम्यतु शान्तिं विरामं वा गृह्णातु । रत्नस्य कुम्भीलकश्चोरः स विहगाधमः भवतः शासनात् दण्डात् कुत्र गतः सन् मोक्ष्यते । क्व गतः स भवद्दण्डपथातीतो भविष्यति । न कुत्रापीत्यर्थः । यत्र कुत्रापि स गमिष्यति तत्रापि भवच्छासने आगमिष्यति । अनेन राज्ञः सर्वत्रास्खलित शासनशक्तिशालित्वं व्यज्यते । (इति उपविशतः राजाविदूषकौ निषीदतः)

 राजा-वयस्य!

 रत्नमिति-विहङ्गमेन पक्षिणोक्षिप्ते नीते तस्मिन् मणौ रत्नं बहुमूल्यमिदमिति मत्वा प्रयासः प्रयत्नः न । स महार्घो मणिरासीत् तदभावे मम महती क्षतिरिवि कृत्वा नाहं तत्कृते दूनः न वा पुनस्तत्प्राप्तिबद्धचित्तः अस्मि, किन्तु