(ततः प्रविशति सशरं मणिमादाय कञ्चुकी)
कञ्चुकी--जयति जयति देवः ।
अनेन निर्भिन्नतनुः स वध्यो
रोषेण ते मार्गणतां गतेन ।
प्राप्तापराधोचितमन्तरिक्षा-
त्समौलिरत्नः पतितः पतत्री ॥ ६ ॥
(सर्वे विस्मयं रूपयन्ति)
कञ्चुकी--अभिप्रक्षालितोऽयं मणिः कस्मै दीयतामिति ।
राजा--वेधक ! गच्छ । कोषपेट्टके स्थापयैनम् ।
किरातः--जं भट्टा आणवेदित्ति । [यद्भर्ताऽऽज्ञापयतीति ।]
(इति मणिमादाय निष्क्रान्तः)
राजा--(लातव्यं प्रति) आर्य ! जानाति भवान् कस्यायं बाण इति ।
तेन सङ्गमनीयेन तन्नामकेन सङ्गमहेतुभूतेन मणिना हे सखे ! अहम् प्रियया सङ्गमितः सम्मेलितः । नाहं तं मणिं मणित्वेन प्रकल्प्य मानयामि किन्तु प्रियासङ्गमकत्वेन तं बहु मत्वा एतावन्तमायासं करोमि । अनेन राज्ञः विपुलकोषवत्त्वं, कृतज्ञत्वं, गुणग्राहकत्वं च ध्वन्यते । इयमार्या जातिः ॥ ५ ॥
(ततः प्रविशति सशरं मणिमादाय कञ्चुकी शरेण येन स वध्यो विहगो हतस्तेन सहितं मणिं गृहीत्वा कञ्चुकी राज्ञः समीपे आगच्छति )
कञ्चुकी--जयति जयति देवः ।
अनेनेति--वध्यः वधस्य योग्यः स विहङ्गः अनेन मार्गणतां गतेन बाणत्वं प्राप्तेन ते रोषेण क्रुधा निर्भिन्नतनुर्भिन्नदेहः सन् प्राप्तापराधोचितं कृतापराधानुसारं यथा स्यात्तथा तत्फलरूपेण वा समौलिरत्नः शिखामणिना संयुतः स पतत्री अधः पतितः । स विहगस्तु तव क्रुधा एव मृतः । स क्रोध एव बाणत्वमाप्तः । अनेन राज्ञः प्रतापातिशयो द्योत्यते । अत्र च शरेण हतेऽपि खगे तद्धेतुत्वेन क्रुधो वर्णनात् असम्बन्धेऽपि सम्बन्धदर्शनादतिशयोक्तिरलङ्कारः ॥ उपजातिवृत्तम् ॥ ६ ॥
(सर्वे जना विस्मयमाश्चर्यं रूपयन्ति दर्शयन्ति)
कञ्चुकी--अभिप्रक्षालितः जलेन धौतोऽयं मणिः कस्मै प्रदीयताम् ।
राजा--वेधक ! गच्छ । कोषपेट्टके स्थापयैनम् । कोषाध्यक्षाय दीयताम् ।
किरातः--यद्भर्ता आज्ञापयति । (इति मणिमादाय निष्क्रान्तः ।)
राजा--(लातव्यं प्रति ।) आर्य कञ्चुकिन् ! जानाति भवान् कस्यायं बाणः । कस्य शरेण हतोऽयं विहङ्ग इति ज्ञायते किं भवता ?