पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३३१

पुटमेतत् सुपुष्टितम्
२३३
पञ्चमोऽङ्कः।

कदाचिदपि तत्रभवती गर्भाविर्भूतदोहदाप्युपलक्षिता । कुत एव प्रसूतिः । किन्तु

  आविलपयोधराग्रं लवलीदलपाण्डुराननच्छायम् ।
  कतिचिदहनि शरीरं श्लथवलयमिवाभवत्तस्याः॥८॥

 विदूषकः-मा भवं माणुसीधम्म दिव्वाए ताए संभावेदु । पभावगूढाई ताणं चरिदाईं ।[मा भवान् मानुषीधर्मं दिव्यायास्तस्याः सम्भावयतु । प्रभावगूढानि तासां चरितानि ।]


 राजा-कथमेतत् यदुवंशीसंभवो मे तनयः स्यात् ? यतः हे सखे ! अनिमिष्या देवाङ्गनया तया उर्वश्या अहं विमुक्त आसम् । तथा च सा तत्रभवती माननीया कदाचिदपि कस्मिन्नपि समये गर्भेण आपन्नसत्वतावशात् आविर्भूतम् प्रकटतां प्राप्तं दोहदं गर्भलक्षणम् यस्याः सा तादृशी नोपलक्षिता । इत्येवं सत्यपि कुत खलु प्रसूतिः सन्ततिः ? यद्यपीदमभवत्तथापि कानिचित् चिह्नानि तादृशानि तत्पूर्वरूपाणि वा मयावलोकितान्यासन्निति वर्णयति-किन्तु पूर्वोत्तस्य विकल्पे।

 आविलेति-कतिचिदहनि कतिचिद्दिनानि अभवन् यदा तस्याः शरीरम् आविले कृष्णे पयोधराग्रे कुचाग्रे चूचुके वा यस्मिन् तादृशं कृष्णचूचुकम् , लवलीदलवत् पाण्डुरा सिता आननस्य मुखस्य छाया छविः यस्मिन् तादृशम् आपाण्डुमुखकान्ति, तथा च श्लथवलयम् शिथिलं कनकवलयम् यस्मिन् तादृशं दुर्बलं शरीरमभवत् । इवेति स्मरणे ।

 कानिचिद्दिनानि व्यतीतानि यदा तस्या चूचुके कृष्णतां प्राप्ते, मुखकान्तिः पाण्डरतां प्राप्ता, कृशत्वमभजच्चास्याः शरीरमिति मया गर्भस्यास्फुटलिङ्गानि समालोकितानि, न तु कदापि उपारूढानि गर्भलक्षणानीति भावः ।

 "चूचुकं तु कुचाग्रं स्या"दित्यमरः । इवेति वाक्यालङ्कारे । लवली हरपरिवडी इति भाषा । अत्र चोपमालङ्कारः। चूचुकयोः कृष्णत्वम्, मुखस्य म्लानत्वं, नयनयोरलसत्वम् , वपुषः कुशत्वम् , एवमादीनि आपन्नसत्वायाः ललनाया लिङ्गानि । यदुक्तम् सुश्रुते "स्तनयोः कृष्णमुखता रोमराज्युद्गमस्तथा । अक्षिपक्ष्माणि चाप्यस्याः संमील्यन्ते विशेषतः" इति । तथा च चरके-"निष्ठीविकागौरवमङ्गसादः तन्द्राप्रहर्षौ हृदयव्यथा च । तृप्तिश्च बीजग्रहणं च योन्याः गर्भस्य सद्योऽनुगतस्य लिङ्गम्" यथा वा अष्टाङ्गहृदये-“अम्लेष्टता स्तनौ पीनौ श्वेतान्तौ कृष्णचूचुकौ” इति वाग्भटः । इयमार्या जातिः ॥ ८ ॥

 विदूषकः-दिव्यायाः देवयोनिगतायास्तस्याः उर्वश्याः मानुषीधर्म मानवयोनिगतानां स्त्रीणां गर्भावस्थायाम् यादृशा धर्माः सन्ति तादृशा एव तस्या अपि अवश्यं भवेयुरिति मा भवान् सम्भावयतु शङ्केथाः । सा देववनिता । तस्यां मानुषीणामिव धर्माणां सद्भावस्य कल्पना अनुचिता । भवेदेवमेव यद्देववनितानां