पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३३३

पुटमेतत् सुपुष्टितम्
२३५
पञ्चमोऽङ्कः

 कञ्चुकी-यदाज्ञापयति देवः । (इति निर्गम्य तापसीसहितं कुमारमादाय प्रविष्टः)

 विदूषकः-णं क्खु एसो खत्तिअकुमारो जस्स णामाङ्किदो गद्धलक्खवेही णाराओ उवलद्धो तत्तभवदो बहु अणुकरेदि । [ननु खल्वेष क्षत्रियकुमारो यस्य नामाङ्कितो गृध्रलक्ष्यवेधी नाराच उपलब्धस्तत्रभवतः बह्वनुकरोति ।]

 राजा-एवमेतत् ।

  बाष्पायते निपतिता मम दृष्टिरस्मिन्
   वात्सल्यबन्धि हृदयं मनसः प्रसादः।
  संजातवेपथुभिरुज्झितधैर्यवृत्ति-
   रिच्छामि चैनमदयं परिरब्धुमङ्गैः ॥ ९ ॥


 कञ्चुकी-यदाज्ञापयति देवः ( इति निर्गम्य बहिर्गत्वा तापसीसहितं कुमारमादाय गृहीत्वा प्रविष्टः ।)

 विदूषकः :-यस्य कुमारकस्य नाम्ना अभिधानेन अङ्कितः चिह्नितः, गृध्ररूपं लक्ष्यं तस्य वेधी छेदकः नाराचः शरः उपलब्धः अस्माभिर्दृष्टः स एष एवायं क्षत्रियबालकः तत्रभवतो बहु बहुरूपेण अनुकरोति सदृशः प्रतिभाति ।

 राजा-एवमेतत् सत्यमेव साम्यं बहुतरं लक्ष्यते ।

 बाष्पायत इति-अस्मिन् कुमारे निपतिता मम दृष्टिः बाष्पायते अश्रूणि उद्वमति । कुमारमेनं दृष्ट्वा आनन्दातिरेकात् अस्राणि वहन्ति । तथा च मम हृदयं वात्सल्यस्य प्रेम्णः बन्धः यस्मिन् तादृशं उद्गतप्रेमानुबन्धनं भवति । मम मनसः प्रसादः विकासः भवति, बालमेनं प्रेक्ष्य मे मनः प्रफुल्लतां भजते । अतोऽहमेनं कुमारकं उज्झिता परित्यक्ता धैर्यवृत्तिर्धीरत्वं येन स धीरत्वहीनः सन् सञ्जातवेपथुभिः सकम्पैः अङ्गैः अदयं गाढं यथा भवेत् तथा परिरब्धुमुपगूहितुमालिङ्गितुं वा इच्छामि । कुमारमेनं दृष्ट्वा मम नयने सास्ने भवतः, हृदये प्रेमानुबन्धनं जागर्ति, मनो विकसति । अत आनन्दातिशयात्पुलकिततनुरहम् मनसः धैर्यं परित्यज्य गाढमालिङ्गितुं कामय इत्यर्थः ।

 अत्र पुत्रं दृष्ट्वा प्रेम्णः जागरणात् वत्सलरसवादिनां मते वत्सलाख्यो रसः, तत्र राजा कुमारश्चालम्बनविभावौ, मनोविकासपुलकादयः अनुभावाः, नाराचदर्शनस्वनिरपत्यतादीन्युद्दीपनानि, प्रीतिः सञ्चारी वत्सलत्वं स्थायी । अथवा अन्येषां मते रत्याख्यो भावः ।

 बाष्पायत इत्यत्र "बाष्पोष्मभ्यामुद्वमने" इति सूत्रेण उद्वमनरूपेऽर्थे बाष्पात् क्यङ् प्रत्ययः । वेपथुरिति टुवेपृ कम्पने अथुच् । अदयं तस्य सौकुमार्यमविगणय्य