पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३३४

पुटमेतत् सुपुष्टितम्
२३६
विक्रमोर्वशीये

 कञ्चुकी -भगवति ! एवं स्थीयताम् ।

(तापसीकुमारौ यथोचितं स्थितौ)

 राजा-(उपसृत्य) भगवति ! अभिवादये।

 तापसी-महाराअ, सोमवंसं धारअन्तो होहि । (आत्मगतम्) भो, अणाचक्खिदो वि विण्णादो एव्व तस्स राएसिण आउसो अ ओरसो संबन्धो। (प्रकाशम् ) जाद! पणम गुरुम् । [ महाराज ! सोमवंशं धारयन् भव ! (आत्मगतम् ) भो ! अनाख्यातोऽपि विज्ञात एव तस्य राजर्षेरायुषश्चौरसः सम्बन्धः । (प्रकाशम् ) जात ! प्रणम गुरुम् ।]

(कुमारो बाष्पगर्भमञ्जलिं बद्ध्वा प्रणमति)

 राजा -वत्स ! आयुष्मान् भव ।

 कुमारः-(स्पर्शं रूपयित्वा स्वगतम् )


अशिथिलं आलिलिङ्गिषुरस्मीति बोधः । क्रियाविशेषणमिदम् । अत्र माधुर्यप्रसादौ गुणौ । वसन्ततिलका वृत्तम् ॥९॥

 कञ्चुकी-भगवति-इदं तापसीसम्बोधनम् । एवं स्थीयताम् । अत्रास्यताम् इत्यर्थः । (तापसीकुमारौ यथोचितं यथानिर्दिष्टस्थानम् स्वोच्चावचत्वं निरीक्ष्य स्थितावुपविष्टौ।)

 राजा-(उपसृत्य) भगवति ! अभिवादये प्रणमामि ।

 तापसी-सोमवंशं धारयन् भव वंशपरम्पराभिवर्धको भव । वंशविस्ताराय प्रयतो भवेत्यर्थः। (आत्मगतम् ) भोरिति विस्मये ! अनाख्यातः अनुक्तोऽपि तस्य राजर्षेः पुरूरवस आयुषश्चौरसः जन्यजनकः सम्बन्धः इति विज्ञात एव । अनयोराकृतिसाम्यात् स्वसमानलक्षणयोगाच्चाकथितोऽपि एतेषां पितृपुत्रसम्बन्धः परिज्ञायते । उरस इति औरसः अण् प्रत्ययः । “उरसोऽण" (४।४।९४) स्वजाते त्वौरसः इत्यमरः । (प्रकाशम् ) जात हे वत्स ! गुरुम् पितरम् प्रणम अभिवादयेत्यर्थः।

गुरुस्त्रिलिङ्ग्यां महति दुर्जरा लघुनोरपि । पुमान्निषेकादिकरेषु पित्रादौ सुरमन्त्रिणि "इति । गुरुः पितृवाचकश्च 'गॄ शब्दे' (क्र्या. प. से.) अथवा “गॄ निगरणे" (तु. प. से) इति धातोः "कॄग्रोरुच्च" (उ. १।२४) इत्युः प्रत्ययः।

(कुमारः बाष्पगर्भं अश्रुपूर्णमञ्जलिं बद्ध्वा प्रणमति)

 राजा-वत्स! आयुष्मान् दीर्घायुर्भव ।

 कुमार:-(स्पर्शं रूपयित्वा स्वगतम्)