पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३३९

पुटमेतत् सुपुष्टितम्
२४१
पञ्चमोऽङ्कः ।

 राजा-(विलोक्य) वत्स!

इयं ते जननी प्राप्ता त्वदालोकनतत्परा ।
स्नेहप्रस्रवनिर्भिन्नमुद्वहन्ती स्तनांशुकम् ॥ १२॥

 तापसी-जाद एहि । पच्चुवगच्छ मादरं । [जात एहि । प्रत्युपगच्छ मातरम् ।]

(इति कुमारेण सहोर्वशीमुपसर्पति ।)


 उर्वशी-अज्जे ! पादवंदणं करेमि । [आर्ये ! पादवन्दनं करोमि ।]

 तापसी-वच्छे, भत्तुणो वहुमदा होहि । [वत्से ! भर्तुर्बहुमता भव ।]

 कुमार:: -अम्ब ! अभिवादये।


सहितः पुत्रकोः मम आयुरस्ति । महान् खलु संवृत्तः, अद्भुतमिदमित्यर्थः । अत्र पुत्रपदात् कप्प्रत्ययः प्रेमातिशयद्योतनायेति ज्ञेयम् ।

 राजा-(विलोक्य । ) वत्स !

  इयमिति-स्नेहः प्रेम तेन प्रस्रवः वहत्पयः तेन निर्भिन्नं विशेषतया सङ्गतम् आर्द्रीभूतत्वात् दृढं लग्नं स्तनांशुकम् कञ्चुकमुद्वहन्ती धारयन्ती त्वदालोकनतत्परा तव विलोकने उत्सुका इयं ते जननी माता उर्वशी प्राप्ता समायातेत्यर्थः।

 अत्र राज्ञो बहुपत्नीकत्वात् अन्यासामुर्वशीभिन्नानामपि मातृत्वात् तासां परिहाराय जननीतिपदग्रहणम् । स्नेहप्रस्रवेतिपदेन चिरकालदृष्टं तनयं समीक्ष्य मातुः साहजिकमिदमिति सम्बोध्य जननीत्वमेव विशेषयति । त्वदालोकनेत्यनेन औत्सुक्यं व्यज्यते । तेन च यत इयमीदृशी तव कारणेनोत्कण्ठिता, अतस्त्वमपि प्रेम्णः सहजत्वात् तस्याः कारणेन तादृश एवोत्सुको भवेरिति हेतोः कुमारस्योत्कण्ठोत्कर्षायास्य ग्रहणम् ।

 निर्भिन्नं सुसङ्गतम् “भिन्नं वाच्यवदत्यर्थे दारिते सङ्गते स्फुटे" इति विश्वलोचनः ॥ अनुष्टुप् वृत्तम् ॥ १२ ॥

 तापसी -जात वत्स! एहि आगच्छ ! मातरं प्रति उपगच्छ समीपं गच्छ। (इत्येवं कुमारेणामुना सह उर्वशीमुपसर्पति । अत्र उर्वशीमिति उपयोगे द्वितीया।)

 उर्वशी-आर्ये सत्यवति ! पादवन्दनं करोमि ।

 तापसी-वत्से ! भर्तुः बहुमता अभिलषिता दयिता भव ।

  कुमार:-अम्ब मातः ! अभिवादये।

 २१ विक्र०