राजा-अयि वत्स! मा मैवम् ।
शमयति गजानन्यान्गन्धद्विपः कलभोऽपि सन् |
निर्वाहकत्वं च व्यज्यते । दम्ये वत्सतरः। “दम्यवत्सतरौ समौ" इत्यमरः । अत्र मयि भवता उदूढभारस्य राज्यकर्मणः नियोगः पुङ्गवधारितायां धुरि वत्सतरस्य नियोग इवेति भावात् निदर्शनालङ्कारो व्यङ्ग्यः। अनेन कुमारस्य विनयित्वं नयवत्त्वञ्च गम्यते । अनुरूपप्रयोगः मुद्राराक्षसे "गुर्वी धुरं यो भुवनस्य भर्ता धुर्येण दम्यः सदृशं बिभर्ति ।" (३-३)
राजा-अयि वत्स मा मैवम् कथय, यतः अपार्थमेतत् ।
शमयतीति-गन्धद्विपः गन्धगजः कलभः शावकोऽपि सन् अन्यान् गजान् शमयति । तथा च वेगेन उदग्रं भयङ्करं भुजङ्गशिशोः वालसर्पस्यापि विषम् मारणाय प्रभवतितराम् नितरां समर्थमस्ति । तथैव बालावस्थः कौमारकेऽपि वर्तमानस्त्वं अधिपतिः सन् भुवं परिरक्षितुमलं समर्थो भवसि । यतः अयं गन्धगजसर्पनृपादीनां गणः समूहः जात्यैव निसर्गत एव स्वकार्यसहः भवति न तु वयसा । गन्धगजलक्षणम्-“यस्य गन्धं समाघ्राय न तिष्ठन्ति प्रतिद्विपाः । स वै गन्धगजो नाम नृपतेर्विजयावहः" इति युक्तिकल्पतरुः।
वेगोदग्रमिति-वेगस्तु "धातोर्धात्वन्तरप्राप्तिर्विषवेग इति स्मृतः ।" सप्तधातवः "रसासृङ्मांसमेदोऽस्थिमज्जशुक्राणि धातवः" इति वाग्भटे । तथाच विषवेगा सप्तैव सन्ति । "वेगो रोमाञ्चमाद्यो रचयति विषजः स्वेदवकोपशोषौ तस्योर्ध्वस्तत्परौ द्वौ वपुषि जनयतो वर्णभेदप्रवेपौ । यो वेगः पञ्चमोऽसौ नयनविवशतां कण्ठभङ्गं च हिक्काम् षष्ठो निश्वासमोहौ वितरति च मृतिं सप्तमो भक्षकस्य" इति विषतन्त्रे।
सरलार्थस्तु-
यथा शावकोऽपि गन्धगजः अन्यान् गजान् वारयितुं पारयति, यथा भुजङ्गशिशोः वेगवत्तरं विषं मारणायालं भवति तथैव बाल्यवयस्कोऽपि त्वं भुवम् पालयितुं समर्थः असि । तमेव समर्थयति सामान्येन अयं सर्वोऽपि गुणानां गणः एषु सर्वेषु नैसर्गिको भवति नात्र खलु वयः समीक्ष्यते । अनुरूपार्थान्तरन्यासो यथा भवभूतेः
"गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः।"
तथा च रघुवंशेऽपि "तेजसां हि न वयः समीक्ष्यते ॥"
अत्र त्वं बालोऽपि भुवं पालयितुमर्हसीति प्रतिपादनाय दृष्टान्तस्यैकस्य अलन्त्वेऽपि अनेकयोः प्रदानात् समुच्चयालङ्कारः। “समुच्चयोऽसौ स त्वन्यः युगपद्या