पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३५०

पुटमेतत् सुपुष्टितम्
२५२
विक्रमोर्वशीये

अर्घोऽर्घस्तावत् ।

 उर्वशी-अअं भअवदो अग्घो । [ अयं भगवतः अर्घः।]

(ततः प्रविशति नारदः।)

 नारदः-विजयतां मध्यमलोकपालः।

 राजा-भगवन् । अभिवादये ।

 उर्वशी-भअवं पणमामि । [भगवन्तं प्रणमामि ।]

 नारदः-अविरहितौ दम्पती भूयास्ताम् ।


पिङ्गा पिङ्गलः जटाकलापः जटाजूटः यस्य सः, शशिनश्चन्द्रमसः कला इव अमलं धवलं वीतसूत्रं यज्ञोपवीतम् यस्य सः तादृशो नारदः पिङ्गलेन जटाजूटेन विमलेन यज्ञोपवीतेन च उपलक्षितः तत्र भवान् नारदः मौक्तिकैः भूषिताङ्गः सुवर्णशाखायुतः कल्पवृक्ष इव समायातो लक्ष्यते।

 गोरोचना हि परमोज्वला दीप्तिमती भवति अनेन तस्याम् पिङ्गलत्वं दृश्यते । "निकषः कषपाषाणः" इति कोषः । किन्त्वत्र गोरोचनागतरेखाः लक्षणया बुध्यन्ते । यज्ञोपवीतस्य सूक्ष्मत्वात् शशिकलेतिपदेन द्वितीयाचन्द्रस्य कला मन्तव्या। अतिशयेति पदम् क्रियाविशेषणम् संभृतपदेन साकं योज्यम् । प्ररोहः शाखा।

 अत्र प्रथमार्धे उपमाद्वयम् । चरमे तु चरणे उपमानभूतस्य जङ्गमकल्पवृक्षस्य कल्पितत्वात् कल्पितोपमा । नारदस्य कल्पतरुत्वकथनात् सर्वमनोरथदायित्वम् शान्तिकरत्वम्, नायकनायिकयोर्दीर्घसंयोगरूपसुखवार्ताहरत्वम् ध्वन्यते । नारदस्यानुरूपवर्णनं माघेऽपि दृश्यते "दधानमम्भोरुहकेसरद्युतीः जटाः शरश्चन्द्रमरीचिरोचिषं । विहङ्गराजाङ्गरूहैरिवायतैः हिरण्मयोर्वीरुहवल्लितन्तुभिः ॥ कृतोपवीतं हिमशुभ्रमुञ्चकैः । धनं घनान्ते तडितां गणैरिवे"ति ।

 वसन्ततिलका वृत्तम् ॥ १९ ॥

 राजा-अर्घोऽर्घः स्तावत् आनीयतामिति शेषः । अर्घः पूजाविधिः तदर्थं द्रव्यम् “गन्धमाल्यादिसंयुक्तमुदकमर्घ्यमुच्यते ।"

 उर्वशी-अयं भगवतः अर्घः पूजार्हाय पूजाविधिः।

(ततः प्रविशति नारदः।)

 नारदः-विजयतां मध्यमलोकपाल: मध्यमलोकं मर्त्यलोकं पालयतीति असौ भूपतिरित्यर्थः । "पुंसि स्मृतौ मध्यमलोकमर्त्यौ" इत्यमरः।

 राजा-भगवन् ! अभिवादये प्रणमामि ।

 उर्वशी-भगवन्तं प्रणमामि ।

 नारदः-अविरहितौ दम्पती भूयास्ताम् । युवयोः विश्लेषः कदापि मा भूयादिति परमसुखकारिणी आशीः ।