पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३५३

पुटमेतत् सुपुष्टितम्
२५५
पञ्चमोऽङ्कः

 (आकाशमवलोक्य) रम्भे उपनीयतां मन्त्रेण सम्भृतः कुमारस्याभिषेकः।

 रम्भा-अअं से अहिसेअसंभारो । [अयमस्याभिषेकसंभारः।]

 रम्भा-उपवेश्यतामयमायुष्मान् भद्रपीठे ।

(रम्भा कुमारं भद्रपीठे उपवेशयति)

 नारद:-(कुमारस्य शिरसि कलशमावर्ज्य । )रम्भे! निर्वर्त्यतामस्य शेषो विधिः।

 रम्भा:(यथोक्तं निर्वर्त्य । ) वच्छ! पणम भअवंदं पिदरो अ। [वत्स ! प्रणम भगवन्तं पितरौ च ।]

(कुमारः सर्वान् प्रणमति)


णिकी प्रसिद्धिः ॥ "आदित्यो वा अस्तं यन्नग्निमनुप्रविशति, अग्निर्वादित्यं सायं प्रविशति" इति श्रुतिः । सारस्तु-"देवान् भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवाप्स्यथ" इति गीता ॥ अत्र पूर्वार्धे भग्नप्रक्रमता। अत्र दृष्टान्तालङ्कारः। अनुष्टुप् वृत्तम् ॥ २० ॥

 नारदः-(आकाशमवलोक्य ) रम्भे ! रम्भा नाम अप्सरसः। उपनीयतामानीयताम् मन्त्रेण सम्भृतः सम्पूजितः कुमारस्याभिषेकः ।

 रम्भा-अयम् अस्य कुमारस्यायुषः अभिषेकस्य संभारः सामग्री।

 नारदः-आयुष्मान् दीर्घायुरयं कुमारः भद्रपीठे भद्रासने उपवेश्यताम् स्थाप्यताम् । भद्रासने राज्याभिषेकसमये स्थीयते । भद्रासनलक्षणं यथा- "हैमञ्च राजतं तानं क्षीरवृक्षमयं च वा । भद्रासनं प्रकर्तव्यं सार्धहस्तसमुच्छ्रितम् । सपादहस्तमानं च राज्ञो माण्डलिकान्तरात्" इति देवीपुराणे । वाराहे च दृश्यते "त्रिविधस्तस्योच्छ्रायो हस्तः पादाधिकोऽर्धयुक्तश्च । माण्डलिकानन्तरचित्समस्तराज्यार्थिनां शुभदः" इति ।

(रम्भा कुमारं भद्रपीठे उपवेशयति)

 नारदः-(कुमारस्य शिरसि मन्त्रसम्भृतं कलशं आवर्ज्य ) रम्भे ! निवर्त्यतां समाप्यतामस्य कुमाराभिषेकस्य शेषः अवशिष्टो विधिः । पुरा हि राज्याभिषेकः महतो मुनेः हस्ताभ्यामभवत् । तस्मिंश्च कलशावर्जनप्रधानं कर्म । शेषं परिचारिकैः विधीयते ।

 रम्भा-(यथोक्तम् निर्वर्त्य कृत्वा) वत्स! प्रणम भगवन्तं नारदम् पितरौ मातरं पितरं च।

(कुमारः सर्वान् प्रणमति)