पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३५४

पुटमेतत् सुपुष्टितम्
२५६
विक्रमोर्वशीये

 नारद:-स्वस्ति भवते।

 राजा-कुलधुरन्धरो भव ।

 उर्वशी-पिदुणो आराहओ होहि । [पितुराराधको भव ।]

(नेपथ्ये वैतालिकद्वयम् )

 प्रथम:-विजयतां युवराजः।

 अमरमुनिरिवात्रिः स्रष्टुरत्रेरिवेन्दुर्
  बुध इव शिशिरांशोर्बोधनस्येव देवः।
 भव पितुरनुरूपस्त्वं गुणैर्लोककान्तै-
  रतिशयिनि समस्ता वंश एवाशिषस्ते ॥ २१ ॥


 नारदः-स्वस्ति भवते । कल्याणं तेऽस्तु इत्यर्थः ।।

  राजा-कुलधुरन्धरो भव । अत्र खच् प्रत्ययः । कुलावतंसो भूया इति ।

  उर्वशी-पितुराराधकः सेवको भव ।

 (नेपथ्ये वैतालिकद्वयम् । वैतालिकः कालबोधकः स्तुतिपाठकः ।)

 प्रथमो वैतालिक:-विजयतां युवराजः-

 अमरेति-अमराणां मुनिः देवर्षिः अत्रिः यथा ब्रह्मणः अनुरूपः पुत्रः अभवत् , यथा च अत्रेः इन्दुश्चन्द्रः अनुरूपः पुत्रः अभूत् , यथा शिशिरांशोश्चन्द्रस्य बुधः अनुरूपः पुत्र आसीत् , यथा बोधनस्य बुधस्य देवः महाराजः पुरूरवाः अनुरूपः पुत्रः समजनि तथैव त्वमपि लोककान्तः लोकप्रियः गुणैः पितुः पुरूरवसः अनुरूपः भव । यतः अतिशयिनि उत्कर्षशालिनि ते वंशे कुले समस्ताः अशेषा आशिषः सन्तीति शेषः । ब्रह्मणः प्रभृति पुरूरव:- पर्यन्तम् उत्तरोत्तरं यथा पूर्वपूर्वगुणसमूहोऽभवत्तथा त्वय्यपि भवतु । त्वमपि पितुः सदृशः हृद्यगुणगणभाजनं भवेति, सर्वा आशिषः सर्वश्रेयोऽधिगमान्निरवकाशाः पौनरुक्त्यं भजन्ते । यथा ब्रह्मणः पुत्रः अत्रिः पितृसदृशः, तस्य तनयः तत्तुल्यः इत्येवं परम्पराप्राप्तं पित्रनुरूपत्वं त्वय्यपि भवत्वित्यर्थः ।

 "अत्रिर्हि ब्रह्मणः पुत्रो मानसः । इन्दुश्चात्रेः नयनजः पुत्रः । यदुक्तं पद्मपुराणे, ब्रह्मणो मानसः पुत्रस्त्वत्रिर्नाम महातपाः । स्रष्टुकामः प्रजा वत्स तपस्तेपे सुदुस्तरम् । ऊर्ध्वमाचक्रमे तस्य रेतः सोमत्वमीयिवत् । नेत्राभ्यां तस्य सुस्राव दशधा द्योतयद्दिशः" इत्यादि । हरिवंशेऽपि तादृशम् “पपात भासयन् लोकान् शीतांशुः सर्वभावनः" इति । अनुरूपपद्यम् रघुवंशे “अथ नयनसमुत्थं ज्योतिरत्रेरिव शैः" इति... ।

 बुधः बृहस्पतेः भार्यायां तारायाम् चन्द्रेण उत्पादितः । यथा मत्स्यपुराणे "ततः संवत्सरस्यान्ते द्वादशादित्यसन्निभः । दिव्यपीताम्बरधरः पीताभरणभूषितः । राज्ञः सोमस्य पुत्रत्वात्सौम्यो राजसुतः स्मृतः” इति । बोधनो