पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३८

पुटमेतत् सुपुष्टितम्

३२

राज्ञा सहोषित्वा पञ्च पुत्रोत्पत्तये गर्भमवाप । उवाच चैनं राजानमस्मत्प्रीत्या महाराजाय सर्व एव गन्धर्वा वरदास्संवृत्ताः व्रियतां च वर इति । आह च राजा। विजितसकलारातिरविहतेन्द्रियसामर्थ्यो बन्धुमानमितबलकोशोऽस्मि नान्यदस्माकमुर्वशीसालोक्यात्प्राप्तव्यमस्ति तदहमनया सहोर्वश्या कालं नेतुमभिलषामीत्युक्ते गन्धर्वाः राज्ञेऽग्निस्थालीं ददुः । ऊचुश्चैनं अग्निमाम्नायानुसारी भूत्वा त्रिधा कृत्वोर्वशीवसलोकतामनोरथमुद्दिश्य सम्यग्यजेथाः ततोऽवश्यममिलषितमवाप्स्यसीत्युक्ततामग्निस्थालीं आदाय जगाम । अन्तरटव्यामचिन्तयत् अहो मेऽतीव मूढता किमहमकरवम् वह्निस्थाली मयैषानीता नोर्वशीति । अथैनामटव्यामेवाग्निस्थालीं तत्याज स्वपुरं च जगाम । व्यतीतेऽर्धरात्रे विनिद्रश्चाचिन्तयत् । ममोर्वशी सालोक्यप्राप्त्यर्थमग्निस्थाली गन्धर्वैर्दत्ता सा च मयाटव्यां परित्यक्ता। तदहं तत्र तदाहरणाय यास्यामीत्युत्थाय तत्राप्युपगतो नाग्निस्थालीमपश्यत् । शमीगर्भं चाश्वत्थमग्निस्थालीस्थाने दृष्ट्वाऽचिन्तयत् । मयात्राग्निस्थाली निक्षिप्ता सा चाश्वत्थश्शमीगर्भोऽभूत् । तदेनमेवाहमग्निरूपमादाय स्वपुरमभिगम्यारणिं कृत्वा तदुत्पन्नाग्नेरुपास्तिं करिष्यामीति। एवमेव स्वपुरमभिगम्यारणिं चकार । तत्प्रमाणं चांगुलैः कुर्वन् गायत्रीमपठत् पठतश्चाक्षरसंख्यान्येवांगुलान्यरण्यभवत् । तत्राग्निं निर्मथ्याग्नित्रयमाम्नायानुसारी भूत्वा जुहाव । उर्वशीसालोक्यं फलमभिसन्धितवान् । तेनैव चाग्निविधिना बहुविधान् यज्ञानिष्ट्वा गान्धर्वलोकानवाप्योर्वश्या सहावियोगमवाप । एकोऽग्निरादावभवत् एकेन त्वत्र मन्वन्तरे त्रेधा प्रवर्तिताः ॥ ९४ ॥ (विष्णुपुराणे चतुर्थांशेषष्ठोऽध्यायः)॥

 एवमेव च पद्मपुराणे "इलोदरे च धर्मिष्ठं बुधः पुत्रमजीजनत् । धर्मेण पालिता तेन सर्वलोकमयी मही। अश्वमेधशतं साग्रमकरोद्यः स्वतेजसा । पुरूरवा इति ख्यातः सर्वलोकनमस्कृतः। हिमवच्छिखरे रम्ये समाराध्य पितामहम् । लोकैश्वर्यमगाद्राजन् सप्तद्वीपपतिस्तदा । केशिप्रभृतयो दैत्यास्तद्भुत्यत्वं समागताः । उर्वशी यस्य पत्नीत्वमगमद्रूपमोहिता। सप्तद्वीपा वसुमती सशैलवनकानना । धर्मेण पालिता तेन सर्वलोकहितैषिणा। चामरग्रहणा कीर्तिः स्वयं चैवाङ्गवाहिका । ब्रह्मप्रसादाद्देवेन्द्रो ददावर्घासनं तदा । धर्मार्थकामान् धर्मेण समवेतोऽभ्यपालयत् । धर्मार्थकामास्तं द्रष्टुमाजग्मुः कौतुकान्विताः । जिज्ञासवस्तच्चरितं कथं पश्यति नः समम् । भक्त्या चके ततस्तेषामर्थ्यपाद्यादिकं तथा । आसनत्रयमानीय दिव्यं कनकभूषणम् । निवेश्याथाकरोत्पूजामीषद्धर्मेऽधिकां पुनः। जग्मतुस्तौ च कामार्थावतिकोपं नृपं प्रति । अर्थः शापमदात्तस्मै लोभात्त्वं नाशमेष्यसि । कामोऽप्याह तवोन्मादो भविता गन्धमादने। कुमारवनमागत्य नियोगाच्चोर्वशीभवात् । धर्मोप्याह चिरायुस्त्वं धार्मिकश्च भविष्यसि । सन्ततिस्तव राजेन्द्र यावदाचन्द्रतारकम् । शतशो वृद्धिमायाति न नाशं भुवि यास्यति । षष्टि वर्षाणि चोन्मादः उर्वशीकामसंभवः । अचिरादेव भार्यापि वशमेष्यति चाप्सराः । मन्वन्तरसमग्रं तु एवमेव न संशयः । इत्युक्त्वान्तर्दधुः सर्वे राजा राज्यं तदन्वभूत् । अहन्यहनि देवेन्द्रं दृष्टुं याति पुरूरवाः । कदाचिदारुह्य रथं दक्षिणाम्बरचारिणा । सार्धं शक्रेण सोऽपश्यन्