पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/५२

पुटमेतत् सुपुष्टितम्

४६

रेव । अस्य च काव्यरसायनस्य प्रादुर्भावे कविगतप्रतिभाया एव शक्तिः सा च नवनवोन्मेषशालिसामर्थ्यं, यदुक्तमभिनवगुप्तपादैः 'अपूर्ववस्तुनिर्माणक्षमा प्रज्ञा तस्या विशेषरसवैशद्यसौन्दर्यनिर्माणक्षमत्वं प्रतिभावत्त्वम्' । अमुमेवार्थं पुरस्कृत्येमरसनपण्डितेन दृष्टान्तितं यत्काव्ये किमपि कविभिरद्भुतं वस्तु समुपस्थाप्यते यच्च चमत्कारि विकारि च इष्टपदार्थानां सदपि नवं भास्वत् स्वत एवाभिमुखीकरोति विदुषो यथा खलु द्विरेफः कुसुमसञ्चये भ्रमन् किञ्जल्कान् स्पृशन् परागबिन्दूनङ्गीकुर्वन्नपि परागकिञ्जल्कव्यतिरिक्तं किञ्चिन्नवीनं मधु द्रवति एवमेव महाकविजगति नैकानि निसर्गरुचिराणि वस्तुजातान्यवलोकयन्नवधारयंश्च समस्ता वाचः समुद्भावयति निजप्रतिभोल्लसितमपरमेव रमणीयं मधुमधुरं कामधुरं नवरसमयं काव्यरसायनम् ।*

 यतो यत्किमपि कठोरमरुचिरं दृशदिव दरीदृश्यतेऽखिलं तत्कविचन्द्रप्रतिभामरीचिभिः स्पृष्टं शशकान्त इव द्रवतीति विद्वदनुभवः सार्वजनीन एव । यदुक्तमभिजातैर्यदवचिनोति कविराट्र पाटलान्येव श्वदंष्ट्राभ्योऽपि । यथा वानुभूतं सहृदयैर्यत् "पाषाणादपि पीयूषं स्यन्दते यस्य लीलयेति" तादृशं सामर्थ्यं कवयितुः काव्यव्यापारस्य, यच्च स्मर्यते "रमणीयार्थप्रतिपादकः शब्दः काव्यं”; श्रूयते च “रसो वै सः रस रसह्येवायं लब्ध्वाऽऽनन्दी भवतीति"।

 एतादृशोऽयं महामहिमशाली कविरमितप्रभया निजप्रतिभया जगदिदं नवमिव विकासयंश्चकास्त अपर इव विरिञ्चिर्यथा “अपारे काव्यसंसारे कविरेकः प्रजापतिः । यथास्मै रोचते विश्वं तत्तथैव प्रवर्तत" इति न्यायात् । एतादृशां कवीनां कुले तिलकायमानो महाकविः कवीन्द्रसार्वभौमः साहसिकानामुपहास इव कविताकामिन्या हास इव कालिदासः कविषु मूर्धन्य इव राजत इति विदितचरमेव सुरभारतीजुषां समेषामेव विदुषां भारतीतले, लभ्यन्तेऽत्र च महाकवये प्रेक्षावद्भिर्नैकाः स्तुतिकुसुमाञ्जलयः समर्पिता यास्त्वधस्ताद्दिङ्मात्रोदाहरणायोध्द्भियन्ते यथा-

 'यस्योच्छिष्टं जगत्सर्व'मितिलब्धबिरुदेनापि भट्टबाणेन-

   "निर्गतासु न वा कस्य कालिदासस्य सूक्तिषु ।
   प्रीतिर्मधुरसान्द्रासु मञ्जरीष्विव जायते ॥” इति

 मुक्तकण्ठमभाणि । गीतगोविन्दसदृशनिबन्धस्य रचयित्रा जयदेवेनापि ख्यापितगौरवो विद्वद्वरो गोवर्धनसुधीरपि प्रशंसन्नतनु महाकविमाह-

   "साकूतमधुरकोमलविलासिनीकण्ठकूजितप्राये ।
   शिक्षासमयेऽपि मुदे रतिलीलाकालिदासोक्ति"रिति ॥


 * In Poetry we say require the miracle : the bee flies among the flowers, and gets mint and marjoram and generates & new product which is not mint nor marjoram but honey... and the poet listens to conversation and beholds all objects in Nature, to give back not them, but a new transcendent whole.

R. W. EMERSON.