पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/५५

पुटमेतत् सुपुष्टितम्

४९

भिस्तर्कममुं प्रसन्नतरमवगाहमानैः रघोदिग्विजयव्याजेन समुद्रगुप्तस्य विजयं वर्णयतश्चन्द्रगुप्तात्मजस्य कुमारगुप्तस्य जन्मप्रसङ्गं कुमारसंभवमहाकाव्यमिषेण शंसतो; महाराजचन्द्रगुप्तस्यैव विक्रमादित्य इति गृहीतमुपाधिं चिरयितुं विक्रमोर्वशीयं त्रोटकमुपग्रथ्नतो महाकवेः समस्तं कवनकलाव्यापार चन्द्रगुप्तपरकमेवेति निर्धार्यते। एवं कृते च तेषां मते कालिदासदिङ्नागयोः समकालीनत्वं कालिदासीयमहाकाव्येषु प्रतिबिम्बितानां विलासचित्राणां समाजसुखानामपि सामञ्जस्यं सञ्जाघटीतीति विद्वदूहः। एवं चेत् कीदृशं हेतुमुद्दिश्य वर्षशतपञ्चकप्राक्तनस्य शुङ्गीयस्याग्निमित्रस्य स्वीयनाटकीयवस्तुनेतृत्वेन महाकवेर्ग्रहणं तत्र चाश्वघोषकालिदासयोः प्रभूतेऽपि काव्यकलासौसादृश्ये तदनभिधानपुरस्सरं धावकसौमिल्लानामेव प्रत्नानां कवीनां नाम्नो ग्रहणं रघुवंशे तत्कालं पह्ल्वीयानां राज्ञां उग्रतरेऽपि प्रतापे कथं पाण्ड्यानां तादृक्सविसरं वर्णनं सङ्घटेदिति सूक्ष्मदृशां महदिदं संशयपदम् ।

 एवं सन्दिग्धतादिग्धमनसो विदग्धाः कतिपये रायजयस्वालशिवरामप्रभृतयो महाकविमिशुमशीयाब्दशतकादक्तनं वर्तमानं नानुमोदन्ते समीक्षन्ते चोपरिष्टाद्वक्ष्यमाणाः स्वमतं द्रढयितुमुपपत्तीरिमाः याः कविं कालिदासं ख्रिष्टीयजन्मनः पूर्वं प्रथमे शतके वर्धमानं साधयन्तिः-

 (१) इशुमशीयाष्टमशतकं यावत् भारतीयं संवत् मालवीयमेवासीन्न विक्रममिति मन्वानेन फ्लीटविदुषा साकं वैमत्यं प्रकटयन्तः परे विपश्चितः कल्याणिनश्चायुष्यवंशीयमैतिह्यमनुसरन्तो नूनमामनन्ति यदाङ्ग्लाब्दशतके तुरीये गुप्तवंशीयेन चन्द्रेण विक्रमादित्य इत्युपाधिमुरीकृत्य स्वीयः प्रतापः याथार्थ्यमनायि तदर्वाक्तनैश्चोर्जस्विभिर्महीपैर्निजौजोगमकोऽयमुपाधिरङ्गीकृत आसीदिति वस्तु विश्वस्य निश्चीयते किल तत्त्वमिदं यच्चतुर्थाब्दशतकात् पूर्वं केनचिदप्यमितौजसा सम्राजा नूनमेव भारतभूतले भाव्यं यमुपमानमलं मेनिरे पश्चात्तना राजान इति । स एव प्राक्तनः संवत्सरप्रवर्तयिता महाराजो विक्रमो महाकवेः पुरस्कर्ता यश्च विक्रमोर्वशीये "अनुत्सेकः खलु विक्रमालङ्कारः" इत्येवं भूरि स्थाने प्रशंसितः । अतस्तत्समकालीनो महाकविरिति ।

 (२) परं च महाकविनोपनिबद्धस्य महाराजरघोः पूर्वजस्य दिलीपस्य निर्देशेनाप्यनुमापदमिदं यन्महाकविनालम्बितो भिन्न एवावलिर्वंशस्य रामायणपवनपुराणाद्यन्तर्गतात्कथोपाख्यानात् । परं च रघुवंशे “अथवा कृतवाग्द्वारे वंशेऽस्मिन् पूर्वसूरिभि"रिति प्रतिज्ञातं च महाकविना यत्पूर्वसूरिभिरपि वर्णितोऽयं वंशः । टीकाकृतश्च पूर्वसूरी"तिपदेन प्राचेतसादीन् परिकल्पयन्ति । विभिन्नश्च तस्मात्कालिदासीयो वंशक्रमो यश्चानुसरति हरिवंशानन्दरामायणादीनामुपाख्यानं संवदति च भासीयप्रतिमानाटकान्तर्गतोपाख्यानपरम्परया। अतो निर्धार्यते यद्भासकालिदासयोरुपजीव्या विभिन्ना एव ग्रन्था अभवन् येन सुबोधमिदं यत्पञ्चमशतकीयरामायणपुराणान्तरादूर्ध्वतनो नायं महाकविरिति ।