५५
मालविकाग्निमित्रेऽपि च--
"स्मयमानमायताक्ष्या" इति (२-१०) पद्येऽपि तथैव ।
एवमेव स्वाभाविकसौन्दर्योपम्येन नायिकासौन्दर्यं वर्णयन् कालिदासो रमणीनां रामणीयकमपि भगवत्याः प्रकृत्या एकं विभागं मन्यमानः,
"क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयताया” इति क्षणे क्षणे विपरिणमन्तं नावीन्यं भजमानं चामन्यत ।
कालिदासस्य सौन्दर्यविषयिण्यः कल्पना न केवलं शरीरसम्बद्धाः किन्तु, आत्मसम्बद्धाः । ता न केवलं लौकिक्योऽपि तु दिव्या आध्यात्मिक्यश्च । यत्किमपि वस्तु सुन्दरं तत् कालिदासीयकल्पनानुकूलं सर्वथाऽनवद्यं, अमानुषं, पुण्यसंभवं, सात्विकगुणसन्दानितं च । नायिकागतं सौन्दर्यं, माधुर्यं, लावण्यं च परमानन्दसब्रह्मचारि दिव्यानन्दघनतोद्बोधकं च सत् "शान्तं शिवं सुन्दर" मित्यादिरूपेणोपवर्ण्यमानस्य परमेष्ठिनः सौन्दर्यसहोदरं सर्वास्ववस्थासु कमनीयं नायकानां मनसां परमायतनं; तेषां मनोवृत्तेर्निर्वृतावेकमात्रं साधनं भवति । सर्वथा नायकानां तादृशविचित्राह्लादजनकं सौन्दर्यं कालिदासीयेषु रूपकेषु परमपुरुषार्थतया सर्वदा आप्यं तदभावेऽनन्यान्तःकरणवृत्तिसमुन्मादजनकं परमभक्तानां स्वेष्टदेवतास्मृतिधाराप्रवाहकल्पं सर्वथाऽलौकिकप्रेमसन्तानसमुद्बोधकं वर्तते । तथाहि
शाकुन्तले-
"चित्ते निवेश्य परिकल्पितसत्वयोगा रूपोच्चयेन मनसा विधिना कृता नु।
स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः ॥” (२-१९)
इति पद्येऽनुपमरूपवती शकुन्तलां धातुरन्यां स्त्रीरत्नसृष्टिमिवामन्यत कविः । एवमेव विक्रमोर्वशीये-
'अस्याः सर्गविधा’ विति (१-१०) पद्ये दिव्याप्सरस उर्वश्या निर्माणे तदनुरूपमेव निर्मातारं सम्भावयतः कवेरयमाशयः सुस्पष्ट एव यत्, तादृशीं सुन्दरीं निर्मातुं विलक्षणैव सामग्री कमनीयसृष्टिविचक्षणश्च वेधा आवश्यकः । एवं बहुषु स्थलेषु कालिदासीयं सौन्दर्यविषयकं कविमात्रासाधारणं दिव्यभावनासम्मिश्रं मतं सहृदयानां मनः संमोदयति ।
सौन्दर्यस्य स्वरूपघटका अवयवा:
कालिदासीयवर्णनानुकूलमिदं परिस्फुरति यत् सर्वथाऽनवद्यत्वं, सर्वास्ववस्थासु चारुता, मण्डनसम्भाराभावेऽपि मञ्जुत्वं, लावण्यं, रेखा, कान्तिः, भूषणानामप्यभूषकत्वं, सौजन्यं, तादृश सुन्दरीकामुकस्याहोभाग्यता चेत्यादयो धर्माः सौन्दर्यस्वरूपघटका इति । तथा हि मालविकाग्निमित्रेऽनुपमसौन्दर्यशालिन्या मालविकाया वर्णनं विदधता- कविना सर्वथाऽनवद्यत्वं सर्वावस्थासु रमणीयता चास्याः प्रदर्शिता---