पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/९९

पुटमेतत् सुपुष्टितम्

॥ श्रीः॥

विक्रमोर्वशीयम्।


॥ प्रथमोऽङ्कः ॥

वेदान्तेषु यमाहुरेकपुरुषं व्याप्य स्थितं रोदसी
 यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो यथार्थाक्षरः।
अन्तर्यश्च मुमुक्षुभिर्नियमितप्राणादिभिर्मृग्यते
 सः स्थाणुः स्थिरभक्तियोगसुलभो निःश्रेयसायाऽस्तु वः॥१॥


॥श्रीः॥

कल्पलता टीका

  रम्यां कान्तिं समीक्ष्य प्रभुरपि मनसो योगिनां चक्रवर्ती
   भ्रान्तः सन् यां स ईशो व्यपहृतनिजधीः क्लान्त एवान्वधावत् ।
  तस्या एवोज्वलाया रसमयवपुषो विश्वसंमोहकर्त्र्याः
   मोहिन्याः कापि शक्तिः परिलसतु मम खान्तपद्मे सदैव ॥ १॥

    अमन्दानन्दसंदोहं गोविन्दं गोपनन्दनम् ।
    वन्दे राकेन्दुवदनं सुन्दरं सुन्दनाशिनम् ॥ २॥

 अथ भगवच्चरणनीरजकृपाकटाक्षप्रसृतदिगन्तकीर्तिर्विद्वद्वृन्दवन्दितपदद्वन्द्वारविन्दः समस्तशास्त्रकाननसंचारपञ्चाननः कविकुलमुकुटमणिस्तत्रभवान् महाकविः कालिदासः स्वकीयोज्वलज्ञानपावकपावनीकृतचारुचामीकरप्रतिभनवत्रोट्कनिर्माणजा-तकौतूहलः नवीननवरसधाराभिः भुवि समानयन् सुन्दरीमपरां सुरसरितं खाभिलषितदेवताप्रसादनमुखीं निखिलप्रत्यूहसमूहव्यपोहनपूर्वकं प्रारिप्सितस्य ग्रन्थस्य परिसमाप्तिमूलां स्वीयमाधुरीपरिहसितात्यन्तपाकद्रवीभूतमृद्धीकामधुरतां समस्तजन-संघमङ्गलवाक्सन्दानितां नान्दीमवतारयति-

 वेदान्तेष्विति -सः स्थाणुः शिवो वो युष्माकं सामाजिकानां निःश्रेयसाय मोक्षाय कल्याणाय चास्तु । प्रेक्षकाणां मङ्गलं कुर्यादित्यर्थः । यं शिवम् भगवत्स्वरूपविवेचनपरकवेदान्तशास्त्रेषु एकपुरुषं अनन्यगुणगणैकभाजनं रोदसी द्यावापृथिव्यौ भूमिगगने वा व्याप्य परिवृत्य विद्यमानमाहुर्वर्णितवन्तो मीमांसकाः। यं शिवं अद्वितीयं सर्वव्यापिनं उक्तवन्तो वेदान्तिन इत्यर्थः । चराचरपालके यस्मिन् शिवे ईश्वर इति शब्दः शिवातिरिक्तार्थप्रतिपादको न भवति । अन्यो विषयः प्रतिपाद्यः यस्य सः अन्यविषयः, न अन्यविषयः अनन्यविषयः ईश्वरेति शब्दः तस्य महेश्वरस्य सर्वशक्तिमत्वात् अर्थमनतिक्रम्य विद्यन्ते अक्षराणि यस्मिन्सः