एतत् पृष्ठम् अपरिष्कृतम् अस्ति
92 विमानार्चनाकल्पे महाशास्त्रे
प्रादुर्भावाना अनुकल्पम् प्रादुर्भावानां प्राकाराभ्यन्तरे विस्तीर्णे मनोरमेदेशे विमानं ,मञ्डपं,
कूटं वा , कृत्वा ध्रुवबेरं चित्रं ,चित्रार्धं , चित्राभासं वा, तदभिमुखे कौतुकं
संस्थाप्य अभावे पीठं वा संकल्प्य अर्चयेत् । अथवा प्रासादपाश्र्वेऽळीन्द्रं कृत्वा प्रासादभित्त्याश्रितान् बहिर्मुखान् संस्थाप्याऽर्चयेत् । अशक्तश्वे लप्रकारपार्श्व अभिमुखे दक्षिणोत्तरयोः प्राकाराभ्यंतरे मुखमण्डपे अंतराले वा दक्षिणे दाशरथिं वामे कृष्णं सकलं कौतुकमेव कृत्वा संस्थांप्याऽर्चयेदि तिके चित् ॥ इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे प्रादुर्भा वविधिनाम एकविंशः पटलः ॥२१॥
अथ द्वविंशः पटलः कौतुकद्रव्याणी
अथकौतुकादीनांलक्षणं वक्ष्ये - दारुशिलाताम्ररजत हेमरत्नानि कौतुकद्रव्याणि ॥
तेषु गुणाधिक्यम् दारवाछ्छतगुणंशेलं,शैलान्ताम्रं सहसगुणं,ताम्राद्रजतमयुतगुणं,रजताध्देमभर्बुदगुणं,रुग्मजं सर्वसाधनं,रत्नजमनन्तफलंभवति ॥ फलविशेषकामनया द्रव्यबिशेषः पुत्रार्थीदारवं,आयुष्कामः शेलं,स्म्रुध्दिकामस्ताम्रजं,श्री कामोराजतं,ऐहिकामुष्मिककामस्सौवर्णं,सद्यः सायुज्यकामोरत्नजं कारयेत् ॥ रत्नजस्य रुपमात्रम् रत्नजं रुपमात्रमेव ॥
उत्सावबलिबेरयोर्द्रव्य निषेधः
शिलचादारुणाचोत्सवं बलिबेरं च नकारयेत् ॥