पृष्ठम्:विमानार्चनाकल्पः.pdf/268

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

23A विमानार्चनाकल्पे महाशाख्ने सौमित्रिं लक्ष्मीवर्धनं लक्ष्मण' मिति लक्ष्मणस्य, 'कपिराजं हनूमंतं शद्धराशिं महामति' मिति हनूमतश्चावाहनादीनि कारयेत्। 'रायामीश' (वै०म०प्र०७) इति मंत्रेणाऽष्टोत्तरशतं हुत्वा, अन्यत्सर्वं पूर्ववत्कारयेत्। मत्स्याद्यवताराणां रूपभेद एव शक्तिभेदो नैवभवेत् तस्मात्प्रतिष्ठादीनि सर्वाणि विष्णोरिव समाचरेत् । अवताराणां ध्रुवबेरंकौतुकं च प्रत्येकं कर्त्तुमशक्तश्चेत्, पूर्वोक्तएकबेरक्रमेण षण्मानसहितं शिलाजंलोहजं वा कृत्वा; अर्चास्थाने ब्राह्मपदे ध्रुवस्थाने दैविके वा प्रतिष्ठाप्य, षोडशोपचारैर्चयेदित्येके । लक्ष्मणस्य पृथक्प्रतिष्ठाचेत् राघवस्योक्तक्रमेण सीतायाः श्रीदेव्या इव भरतशत्रुघ्नयोश्व रामलक्ष्मणयो रिव सर्वसमाचरेत्। मूर्तिमंत्र एव विशेषः । तथा हन्मतो वायोरिव प्रतिष्ठामाचरेत् । नित्यार्चनायां राघवस्य तन्मूर्त्तिमंत्रैरष्टोप चारैरमभ्यर्च्य; कौतुकस्य पूर्वोक्त षोडशोपचारमंत्रै स्तत्तन्मूर्त्तिमंत्रान् संयोज्याऽर्चयेत् । बलरमस्य अथ बलरामं मध्यमं दशतालमितं द्विभुजं त्रिनतस्थितं दक्षिणहस्तेन मुसलधरं वामेनहलधरं श्चेताभं रक्तवख्नधरं उध्दंधकुंतलं दक्षिणे रेवतीदेवीं पद्मकिंजल्क वर्णा पुष्पांबरधरां दक्षिणेन हस्तेन पद्मधरां प्रसारिवाम हस्तां कारयेत्। तद्रूपं कौतुकं विष्णुं चतुर्भुजं वा कारयेत् ॥ तत्प्रतिष्ठा अस्य प्रतिष्ठाविशेषं वक्ष्ये - पूर्वोत्तयागशालामध्ये शय्यावेर्दिं परितः पंचाग्रींश्च परिकल्प्य; आहवनीये प्रधानाग्नौ हौत्रं प्रशंस्य, 'रामं यदुवरं विष्णुं हलायुध' म्ति रामस्च, 'रेवती मिंविरां लक्ष्मीं रामप्रिया' मिति रेवत्याश्च आवाहनादीनि कृत्वा;'रायामीश'इति मंत्रेणाऽष्टोत्तरशतंहुत्वा; अन्यत्सर्वं पूर्ववत्कारयेत् । नित्यार्चनायां ध्रुवबेरं तन्मूर्तिमंत्रै रष्टोपचारै रभ्यर्च्य; कौतुकंषोडशोपचारमंत्रैस्तन्मूर्त्तिमंत्रान् संयोज्याऽर्चयेत् । स्नपनोत्सवादीनि पूर्वोक्तवत्कारयेत्। इति श्रीवैखानसे मरीचिप्रोत्के विमानार्चनाकल्पे रामत्रयविधिर्नाम अष्टपंचाशत्तमः पटलः ॥५८॥