पृष्ठम्:विमानार्चनाकल्पः.pdf/269

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पतल: अथ एकोनषष्टितम: पतल: कृष्णस्य अथ कृष्णस्यलक्षणं वक्ष्ये - मध्यमं दशतालमितं द्विभुजं श्यामामं रक्तवस्त्रधरं सर्वाभरणभूषितं उध्दंकुंतल दक्षिणेन हस्तेन क्रीदायष्टिधर मुध्ध्तवामकूर्परं हिक्कासूत्रादधोदशांगुलं दक्षिणकरकटकाग्नं नभिदघ्नं वा तस्मात् षट्सप्ताऽप्टदशांऽगुलंनिम्नं, नासग्रात् पादतलान्तं हिक्कासूत्राद्वामेंगुलं सूत्रात्तस्चार्धहृदयं नामेर्दक्षिणे कलांगुलं मेढ्रंभागं वामेजान्वंतं जगती यवं सूत्रान्मात्रत्रयं पाष्णर्यतरम् एवं समभंगसूत्रमन्यत्सर्वम् राघवस्योत्कक्त्। दक्षिणे रूक्मिणीदेवीं हेमाभां धम्मिल्लकुंतलयुतां वा प्रसारितदक्षिणहस्तां सपध्मवामहस्तां, वामपार्श्वे सत्यभामां श्यामाभां धम्मिल्लकुंतलयुतां सोत्पलदक्षिणहस्तां प्रसारितवामकरां सर्वाभरणसंयुक्तां कारयेत्। वामपार्श्चे गरूडं प्रांजलीकृत्यस्थितं कारयेत्। तद्रूपंकौतुकं विष्णुं चतुर्भुजं वा कारयेत्॥ नवनीतनतस्य वामपदंसमाकुंच्य स्थितं दक्षिण मुत्तानकुचितं दक्षिणहस्तममयं नवनीयुतंवा वामंप्रसार्य अनुत्तानं सर्वाभरण भूषितं अंबरहीनं अंबराधारयुतं नवनीतनृत्तरूपं कारयेत्। एवमेव कालियाऽहिफणोपरिस्धितं दक्षिणलकरं सपतकं वामकरेणाऽहिपुच्छं संगृह्य नृत्यन्तं कारयेत्। कृष्ण रूपाण्यसंख्यानि चक्तुं न शक्यानि तस्माद्यथेष्टरूपं कारयेत्॥ तत्प्रतिष्टा अस्य प्रतिष्टाविशेषं वक्ष्ये - पूर्वोक्तयागशालामध्ये शय्यावेदिं परित: पंचग्नीन् पौण्डरीकाग्निं च संकल्प्य; पौंडरीके प्रधानाग्नौ हौत्रंप्रषंस्य, 'कृष्णं पुण्यं नारायणं त्रिदशाधिप' मिति कृष्णस्य; 'रूक्मिणीं सुंदरीं देवीं रमा' मिति रूक्मिण्या:; सत्यभामां सतीं सत्रतीं क्षामा' मिति सत्यभामायाः ; गरूडस्य पूर्ववत्, 'नवनीतनत कृष्णंदेवकीसुतं बालरूप्' मिति नवनीतनटस्य