पृष्ठम्:विमानार्चनाकल्पः.pdf/270

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

236 विमानार्चनाकल्पे महाशाख्ने 'कालियमर्दनम् क्रिष्णंगोपाल्ं वतपत्रषशायिन मिति कालियमर्दन्स्य; अन्येषां रुपाणां तत्तत्कर्मनाम संयोज्य; अावाहनादीनि कारयेत् | ‘सत्यस्सत्यज्ञ' (वै०म०प्र०७) इति मंत्रेणाऽटोत्तरशत मावर्त्य हुत्वा, शेषंपूर्ववदाचरेत् । नित्याचनाया ध्रुवबेर मष्टोपचारैः कौतुकंषोडशोपचारमंत्रैः संयोज्याऽर्चयेत् । स्रपनोत्सवादीनि पूर्ववत्कारयेत् ॥ रुक्मिणीसत्यभामयोः पृथक् प्रतिष्ठाचेत् श्रीभूम्योरिव कारयेत् ॥ कर्किण: कर्किणं मध्यमदशतालमितम् अश्वाकारं मुखम् अन्यंनराकारं चतौर्भुजम् शंखचक्रखङ्गखेतकधरं उग्ररुप्ं भेयानकं एवं देवरुपं क्रुत्वा, तद्रूपं कौतुकं विष्णुरूपं चतुर्भुजं वा कारयेत् ॥ तलप्रतिष्ठा अस्य प्रतिष्ठाविशेषं वक्ष्ये - पूर्वोत्तयागशालामध्ये शय्यावेदिं परित:पंचाग्निं च संकल्प्य; पौंडरीके प्रधानाग्नौ हौत्रंप्रशंस्य: ‘कर्कणं विष्णु कामरूपं संहारात्मक मित्यावाहनादीनि कृत्वा;'धूनीवहन्ता' (वै०म॰त्र०७) मित्यष्टोत्तरशतंहुत्वा; अन्यत्सर्वं समानं कुर्यात्। नित्यार्चनायां पूर्वोक्तार्चाक्रमेणमूर्तिसंत्रं संयोज्याऽर्चयेत् । अवताराणां पूर्ववत्न्नेताग्निविधानेन एकाग्निविधानेन वा अग्नीन् संकल्प्य; तत्प्रधानाग्नौ हौत्रशंसनादीनि कारये दित्येके । अादिमूर्तिविधिः अथ अदिमूर्त्तिविधिं वक्ष्ये-अनन्तोत्संगे समासीनं दक्षिणंप्रसार्य वाममकुंच्य दक्षिणहस्त मनंतोत्संगेन्यस्य वामं वामजानूर्ध्वे प्रसार्य चतुर्बाहुँ कृत्वा; तद्दक्षिणे भृगुं वामे मार्कंडेयम् एकजानुक्रमेणाऽऽसादयित्वा, दक्षिणे ब्रह्माणां वामे शंकरं च कृत्वा, तद्रूपं कौतुकं च कृत्वा प्रतिष्ठोतक्रमेण प्रतिष्टांकारयेत् । ‘अादिमूर्त्ति ममितमहिमानं अत्यंताद्भुतं सर्वाधार’ मित्यादिमूर्त्तै: नागराजस्य पूर्ववदावाहनादीनि कारयेत् अन्यत्सर्व पुर्ववदाचरेत्॥