पृष्ठम्:विमानार्चनाकल्पः.pdf/54

एतत् पृष्ठम् परिष्कृतम् अस्ति

18 विमानार्चनाकल्पे महाशास्त्रे ब्राह्मंमन्त्रमुखार्य, नवरत्नानि सुवर्ण वा निक्षिप्य पश्चात्शिल्यिनमाहुय, अभिपूज्य तेनैव क्रमेण दृढंकारयित्वा, उपरिश्थात् भित्तिमूलं सौपपीठाधिष्टानं केवलाधिष्ठानं वा कृत्वा, पादवर्गदि वगढियं विन्पानं त्रितलमेकतल वा परिकल्पयेत् ॥

  इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे प्रथमशिलेष्टकाविन्यासविधिर्नाम षष्टः पटलः ॥६॥
                  अथ सप्तम: पटल:
अथ विमानविधि वक्ष्ये - नलिनकादिषण्णवति भेदै स्त्रिचतुर्ह स्तादि रुद्रार्ककरांतमेकभूमिं पञ्चषड्र्स्तादि त्रयोदशचतुर्दशकरान्तं द्वीभूमिं, सप्ताऽष्टकरादि पक्षषोडशाकरान्तं त्रितलं, सप्तदश हस्तादि षट्शातकरान्तं चतुर्भूम्यादि द्वादशतलान्तं युग्माऽयुग्म हस्तैर्युतं संयोज्य येत्, एवं तलंप्रति मानं दशाधाभवति ||
                                                      संकीर्णाविमानलक्षणम्

एतेषु इष्टहस्तैर्वा सायाम समचतुरश्रवृत्तं विस्तारा त्यादाऽधिकमर्धा ऽधिकं, पादोनद्विगुणं द्विगुणं वा, आयतम्, आयत चतुरश्रवृत्तं तेषु ग्रीवोपरि भिन्नाङ्गं सङ्कीर्णस्यात् ॥

                                                                शांतिकादि विमानलक्षणं

विमानिविपुलस्य: सप्तदशोत्स्येधं शांतिकं, अर्धाऽधिकोत्स्येधम्पौष्तिकं, पादोनद्विगुणंजयदम्, अद्भुतं पादाऽधिकं, द्विगुणं सार्वकामिकम्स्यात्|

                                                                 हर्म्यभेद: तत्स्वरूपंच
नागरं द्राविलं,वेसरमिति त्रिविधं हर्म्यरूपं |  खुरादिस्तूपिकान्तं चतुरष्रं नागरं,तथैव व्र्त्तंवेसरं अधवा प्रस्तरान्तं समचतुरष्रं तदुपरिवृत्तग्रीवाशिखरं च वेसरं तथैवच स्वश्रशिखरग्रीवं द्रविलंस्यात् ॥

पूर्वापरायां दक्षिणावान्तरं भवति आयत चतुरष्रवृत्ते चायमेनशांतिकोत्सेधग्रहणं कारयेत् । अर्पित मनर्पित मितिद्विविधं भवति । अर्पितमलिन्द्रविहीनम् अनर्पितमलिन्द्रयुक्तमेवं कारयेत् ॥ · · · · ·