पटलः 19 55 संपूज्य तेन तत्तदङ्गिनं वर्णं संलेपयेत् । अत्यन्तं दर्शनीयं यथोक्तविधिना संले (प्य) ख्य पश्चादेवमेव संस्कारं कृत्वा सुवर्णसहितं वर्णं संलेपयेत् । तस्माच्छक्तियुतं भवतीति विज्ञायते ॥
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे शूलस्थापन (वर्ण) विधिर्नामाष्टादशः पटलः ||१८|| अथ एकोनविंशः पटल:
अथ ध्रुवबेरबिधिं वक्ष्ये-तत् त्रिविधं स्थानकमासनं शयनं चेति । पुनस्तदेकैकं चतुर्विधंस्यात् । योगं वीरं भोग माभिचारिकमिति । योगार्थं योगमार्गं भोगार्थं भोगं वी (रा) र्यार्थं वीरमार्गं शत्रुजयार्थमाभिचारिकं कारयेत् । ग्रामाद्वाह्ये विविक्ते देशे नदीतीरे तत्संगमे पर्वते वने वनपाश्र्वे योगस्थानकं , तद्वाह्येवा वीरस्थानकं , वनगिरिजल दुर्गे राष्ट्रान्ते शत्रु दिङमुखेचाऽऽभिचारिकं भवति ।
विमानं नलि (न) कंविमलाकृति सर्वतोभद्रं, नन्द्यावर्तं, श्रीप्रतिष्ठितं
स्वस्तिभद्रं, पद्याकारं ,वृत्तगेहम् ,उद्योगपद्यं ,योगकान्त , मित्यादिसम चतुरश्र, मायताश्रं , वृत्तं, वृत्तायतं स्थानकस्य ।
अष्टाऽङ्गं सर्वतोभद्रं , महापद्यं , वृत्तभद्रं (पद्मं) चतुर्मुखदिशा
स्वस्तिकं ,महापद्यं ,चतुस्फुटं ,पर्वताकारं ,खंडह् ,मुद्योगपद्यं ,समचतुरश्रं समवृत्तंवाऽऽसनस्य।
स्वस्तिकं वृत्तभद्रं वृत्तगेहमवेदिकं प्रेक्षागृहं महाराजच्छंदं श्रीप्रतिष्ठितं, शनैर्योगं, मातृखंडं , गणिकाविशालमेवमादीन्यायताश्राणि वर्तुलायतानि वा शयनस्य ।
स्थानके विमाने स्थानक बेरम् आसने चासनं शयने शयनं सर्वत्रस्थानकमासनं यानकं वा, शयने शयनं कर्त्तव्यम् , अन्ययोः शयनं नैवकाल्पयेत् । शयनागारद्वारविस्तारंपादयोरन्तरं तप्तादोदयाष्टांशोनं द्वारोत्से धम् एवमासनागारे स्थानके वा कारयेदिल्येके ।
यानके सर्वविमानं ध्रुवबेरेष्विष्टं मानं विनिश्र्चित्य सलक्षणं बेरं कृत्वा गर्भागारे कृते पदे दैविके स्थानकं यानकं च किं चिन्मानुषमाश्रित्य दैविके चासनं किंचिद्यैवमा श्रित्यमानुषांशेशयनं संस्थापयेत्। प्राग्द्वारं सर्व संपत्करं