विशिष्टाद्व तसिद्धिः प्रथम . (४) द्वितीयमियत्वम् ‘प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वं वा मिथ्यात्वम् इत्यपरं मिथ्यात्वमुक्तम् । अत्र नैकालिकनिषेध इत्यत्यन्ताभाव इष्टः। येन रूपेण यदधिकरणतया यत् प्रतिपन्नं तेन रूपेण तन्निष्टात्यन्ताभाव प्रतियोगित्वं तस्य मिथ्यात्वमिति विवक्षितमिति स्वयमेव तद् विवृतम् । अत्र तद्वस्त्वधिकरण एव वर्तमानतया तद्वस्त्वत्यन्ताभावो न प्रतिपत्ती शक्यत इति त्रिरोधः स्फुटः। अत इदं परित्यज्य "सन्मात्रनिष्टात्यन्ता भावप्रतियोगिस्वमेव मिथ्यात्वमित्याह । “सन्मात्रनिष्ठेति । स्वप्रकारक- धीविशेष्यनिष्ठसत्त्वव्यापकेत्यर्थः ।” इति इदमप्यनुपपन्नम् एवंविधस्य मिथ्यात्वस्य दृष्टान्ते शुक्तिरूप्ये पूर्वमगृहीतत्वेन तस्य व्यापकत्वाभावात् । बाधकप्रत्ययेन इदमर्थनिष्ठत्यन्ताभावप्रतियोगित्वमेव रजतस्य गृहीतम् । न तु इदमर्थनिष्टसर्वव्यापकात्यन्ताभावप्रतियोगित्वम् हेत्वभावात् अनपेक्षितत्वात् । असम्भवि च सर्वव्यापकत्वमत्यन्ताभावस्य । सत्यरजते सत्ववति । ब्रह्मात्मकसत्वविवक्षाय रजतात्यन्ताभावाभावात् च शुक्ति रूप्ये तद्वयापकत्वग्रहणमुक्तम् । तस्मादिदमपि साध्यं न युज्यते । (५) तृतीयमिथ्यात्वम् ज्ञाननिवत्थुत्वं वा मिथ्यात्वमित्यन्यन्मिथ्यात्वम् । तच्च स्क्यं व्यवृणुत, ज्ञानप्रयुक्तावस्थितिसामान्यविरहप्रतियोगित्वमिति । दृष्टान्त इदं न सम्प्रतिपन्नम् । न हि शुक्तिरजतभ्रमे किमपि रजतं जातं पश्चान्निवर्तत इत्यनद्वैतिन इच्छन्ति । तथा साधयिष्यत इति चेत् आरम्भात् प्रभृति आवसानं सर्वं भवतां साध्यवस्थमेव । न तु कस्यचित् सिद्धिरस्ति भविष्यति वा । परं प्रति अप्रसिद्धवशेषणता तु स्थिता । प्रारब्धकर्मण्यव्याप्तिश्च, भोगैकनाश्यत्वात् । एतेन दृष्टान्तासिद्धिरप्य नुमानदृषणमिति शापितं भवति । शुक्तिरूप्यमिति कस्यचिद्वस्तुनोऽ सम्प्रतिपन्नत्वात् ।
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१२१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति