परिच्छेदः मिथ्यात्वमिथ्यात्वम् त्वापहारोक्तेरत्यन्तमसङ्गसत्वात् । अत एव प्रपञ्चसस्यत्वस्य काल्पनिकस्त्रो क्तेरयोगाच्च । तदिहानुमीयमानं प्रपञ्चमिथ्यात्वं यदि ब्रह्मतुल्यं तर्हि अद्वैतसिद्धिः । यदि प्रपञ्चतुल्यं तर्हि तत्सत्यत्वेन विरोधदन्य- तरबधेऽपरिहार्ये प्रत्यक्षसिद्धस्य प्रबलत्वादनुमीयमानं मिथ्या भवति । तथा च प्रपञ्चसत्यत्वं निश्चलम् । शुक्तिरूप्यतुल्यत्वं तु प्रामाणिकं सन् अद्वैतभङ्गमयत्नसिद्धमापादयति । इत्ययं वदकुशलान मभियोगो दुर्निवारः प्रपञ्चापलापिनाम् । एतदुक्तं अयति । प्रकृतानु- मानसाध्यस्य प्रपञ्चमिथ्यात्वस्य सत्यस्वमनिष्टम् । द्वितीयसस्यप्रसङ्गात् । शुक्तिरूप्यवन्मिथ्यात्वमप्यनिष्टम् । प्रपञ्चस्य सत्यत्वापत्तेः। परिशेषात् प्रपञ्च त्रसत्यत्वं वाच्यम् । तत्तु प्रपन्नसत्यत्वेन विरुद्धयते । शुक्तिसत्यत्वेन शुक्तिरूप्यसत्यत्वमिव । शुक्तिसत्यत्वेन तदभावसत्यत्वमिव च । न हि प्रपञ्च सत्यस्वे सति तन्मिथ्यात्वसत्यत्वं भवति । अस्मिन् सति वा तत् । एवं प्रपञ्च सत्यत्वमिथ्यात्वयोः परस्परविरहात्मकत्वेन एकस्य साधकेनापरस्य बाधा- द्विषमसत्ताकत्वमपरिहार्यम् । तत्र सत्यवसNधकं दृढं प्रत्यहं अनुमेयं मिथ्यास्वं बाधते । तथा चेदमनुमानं प्रपञ्चमिथ्यास्वं साधयितुम क्षममिति । यत्तु "न च भावत्रभावत्वात्यन्ताभाववत्रसम्भवः । सत्त्वास • स्यन्ताभावयोः परस्परपरिहारनियमादिति वाच्यम् , सत्वे तावन्न सस्त्र मस्ति । वृत्तिविरोधात् । न चासत्वम् , तथा सति सर्वशून्यतापातान् । एवमसत्वे नासत्वम्। वृत्तिविरोधान् । न सस्वम् । विरोधादेव । इति सदसतोरेकतरनिषेधस्येतरविधिवनियमासिद्धेः ।” इति न्यायचन्द्रिका- यामुक्त तदयुक्तमिति संग्रहम् , ब्रह्मणोऽप्येत्रमनिर्वचनीयत्वापत्तेः। तत्र हि न सर्वम् । सविशेषत्वापत्तेः । नाप्यसत्त्रम् । शन्यतापत । अथ सर्वाभावेऽपि ब्रह्मणे नासत्वम् । अत एव न इन्यस्वम् तत् सत्वेऽपि तुल्यम् । घटो न नास्तीत्युक्ते घटसत्वप्रतीतिनियमानुपपत्तिश्च, असत्व-
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१२४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति