पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः १३ र्थान्तराणि कथयन् “अशुद्धत्वमुपहितत्वम् । न तु शुद्धभिन्तत्वम् । शुद्धस्य वृत्तिविषयत्वापत्तेः ।” ‘न चोपहितत्वाभावविशिष्टे स्वप्रका- शत्वाभावो न ज्ञायत इत्याद्य क्तवाक्यजबुद्धौ शुबभानभावश्यकमिति वाच्यम् ।’ इत्यादि स्थलेषु अनुपहिततात्पर्येणैव शुद्धपदमसकृदप्रयुङ्क्ते । अतिमात्रं हि सङ्गतमिदं यद।चार्या उपहसन्ति-स्ववाग्विरोधमपि न जानन्ति भवन्त इति । यत्तच्यते शुद्धं ब्रह्म ति वृत्तिः स्वोपहितमेव ब्रह्म विषयीकरोति । तथा च वृत्तिदशायामनुपहितस्य विरहात् उपहित मेव विषयीभवति । तस्य च मिथ्यात्वमिष्टमेव । यद्वा विष्णवे शिपि- विष्टाय, अग्नीषोमोयमित्यादौ प्रत्येकं देवतास्वाभाववत् प्रत्येकं विषयत्वं नास्ति । अतो न शुद्धस्य दृश्यत्वम् । नापि मिथ्यात्वमिति । तन्न । शिपिविष्टो नाम पृथग्देवता न प्रसिद्धा । प्रसिद्ध तु शिपि- विष्टवगुणविशिष्टा विष्णुदेवता, अतस्तत्र पृथग्देवतात्वं नास्ति । तदुक्तं शास्त्रदीपिकायां षष्ठेऽभ्युदितेष्टयधिकरणे-दातृप्रदातृशिपिवि- ष्टशब्दन यौगिकानां धृत्यैवाग्न्यादिपदसामानाधिकरण्यात् पदद्वय प्रतिपादितं विशिष्टं देवताकारकम्’ इति । अग्नषोमोयमित्यत्र द्वन्द्वा परमुत्पन्नस्तद्धितः उभयपर्याप्तं देवतावं गमयति । अतः प्रत्येकं ? देव तात्वपर्याप्तिर्नास्ति । न चैवं विशिष्टप्रतीतिस्थले उभयं विषयत्वपर्याः त्यधिकरणं, न प्रत्येकमिति सम्भवति । विशेष्यताप्रकारतारूपेण विषय- ताभेदत् । प्रत्येकं तत्तद्विषयतापर्याप्त्यधिकरणत्वात् । अतो विषयत्वा भाववचनं तावदसङ्गतम् । उपहितस्यैव विषयत्वम् । तस्य च मिथ्याव- मिष्टमितीदं रिक्त वच इति चोक्तम्, न खुपाधिमिथ्यात्वातिरिक्त किमपि उपहितमिथ्यात्वमित्यनेनोक्त ’ भवति । शिखध्वंसमात्रता पर्येण शिखी ध्वस्त इति यथा तथैव होदं भवभिरिष्यते । न चेदं चोद्यस्य समाधानं भवति । शुद्धपदवाच्यस्थानुपहितस्य दृश्य त्वमस्ति । मिथ्यात्वं तु नास्ति । अतो हेतोर्यभिचार : इति परे ।