पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ प्रथमः विशिष्टाद्वै तसिद्धिः "यथा कथञ्चित् चित्सम्बन्धित्वरूपं चिद्विषयत्वं वा दृश्यस्वम् । स्वव्यवहारे स्वातिरिक्तसंविदपेक्षनियतिर्वा । स्वापरोक्षत्वे स्वातिरिक्ता- नपेक्षत्वरूपस्वप्रकाशताराहित्यं वा । अवेद्यत्वे सति यदपरोक्षव्यवहार योग्ययं तदभावो वा’ इत्येतेऽपि दृश्यत्वविकल्पाः न हेतुभवायाळम्। दृष्टान्तेऽगृहीतव्याप्तिकत्वात् । अप्रयोजकत्वाच्च । दृग् दृश्यमिति पदर्थं द्वेधा विभज्य दृश्यस्य सर्वस्य मिथ्यात्वं कृत्वा तत्साधनौपयिकतया हेतुविशेषनिर्देशघ्यप्रैः स्ववृद्धयोल्लिखिता होमे धर्माः न तु प्रमाणपारत योचितया प्रक्रियया दृष्टान्ते व्याप्यत्वेन गृहीताः । ब्रह्मणःसिद्धिमद्वती न प्रमाणेन वाञ्जुति । अवेद्यत्वाभ्युपगमात् स्वतःसिद्धिस्तु दुर्लभा ॥५॥ अतोऽत्र दुष्परिहरं शून्यवादे निमज्जनम् । प्रमाणशरणानां तु दुर्निवारा विशिष्टधीः ॥६॥ (१०) जडत्वम् प्रपञ्चमिथ्यात्वे जडत्वमिति हेत्वन्तरं यदभिमतं तदुपि पूर्ववदेव दुष्टम् । व्याख्यग्रहणात् अप्रयोजकत्वाच्च । जडस्वमस्तु, मिथ्यात्वं मा भूदिति हि सुवचमेव । जडत्वं चाज्ञानत्वं वा अननन्दत्वं वेति यदुक्तं तन्न युक्तम् । तथा हि । वस्तुतो ब्रह्मणि ज्ञानत्वादयो विशेषाः सन्ति न वा ? आद्य अद्वतहानिः । अन्त्ये तस्याप्यज्ञानत्वान्मिथ्यात्वम् , हेतोध्यंभिचरो वा । अद्वैतरक्षणाय निर्विशेषमिति व्यभिचारवारणाय विशेषाः सन्तीति चोभयथा भाषणं प्रामाणिकानां न शोभनम् । “अर्थोपलक्षितप्रकाशस्यैव ज्ञानत्वेन मोक्षदशायामपि तदनपायात्’ इति रिक्त वचः । अथ- पळक्षितत्वमिति कस्यचिद्विशेषस्य प्रकाशेऽनभ्युपगमात् । अभ्युपगमे नि ।