परिच्छेदः जडत्वम् १ ७ विशेषत्वभङ्गान्, अर्थोपलक्षितेति च किमुच्यते ? यद्यथ नास्ति. तथाऽपि तत्प्रकाशोऽस्तीति, तदसम्भवि । न ह्याश्रयो नास्ति, तथाऽ प्यग्निरस्तीति सम्भवति । अन्यथा आश्रयोपलक्षितोऽग्निरस्तीति स्यात् । न चेष्टापत्तिः। अनुपलब्धिविरोधात् । ननु ब्रह्मरूपः प्रकाशो नित्य एकः । स एव तैस्तैरयैः सम्बध्यमानः सन् ज्ञानमित्यभिधीयते । स चार्थानां सर्वेषां निवृत्तावप्यनुवर्तत एवेति किमनुपपन्नमिति चेन्न । अर्थसम्बन्धनिवृत्तौ तन्निबन्धनस्य ज्ञानत्वस्यापि निवृत्तेः । अर्थप्रकाश iहे ज्ञानं नाम । तन् कथमर्थाभावे स्यान् । प्रकाशत्वमेव च तदा निवर्तेत । स्वस्य वां परस्य वा कस्यचित् स्फुरणं हि प्रकारा इ युच्यते । ददुभयविषयत्वाभावे कथं केवलं स्फुरणं नाम किञ्चिद् भवेत् . यन् प्रकाश इत्यभिधीयेत ? तथा च प्रयोगः -ब्रह्मतयाऽभिमतं न प्रकाश, निर्विषयत्वात्, घटवदिति । अथ स्वप्रकाशं तत् स्वविषयकमेव स्फुरणं भवतीति चेन् युक्तमेवैतत् । किन्तु स्वयं स्फुरन् तत् ‘अहं’ इत्येव स्फुरेत् । तथा चाहमर्थ एवात्मा, न चैतन्यमात्रम् । इदं ज्ञान पदाभिधेयं तस्य धर्म इति पर्यवस्येत् । इदं च प्रामाणिकमपि भवता मनिष्टम् । इत्थं च ब्रह्मण ज्ञानस्वेऽद्वैतभङ्गः । तदभावे तस्यापि जडत्वं तेन च मिथ्यात्वमित्युभयतस्पाशा रज्जुः । यत्र ‘इदमहं जानामि इत्यनुभवस्य, ‘ज्ञातुरर्थप्रकाशस्य ज्ञानत्वात् इति विवरणग्रन्थस्य चान्यथोपपादनं क्रियते-"कदाचित् ज्ञातृज्ञेयसम्बन्धेनैव अनुभवस्य वि वरणग्रन्थस्य चोपपत्तेः” इतितदसमीचीनम्। ज्ञातृज्ञेयसम्बन्धरहितस्य ज्ञानस्य केनापि प्रमाणेनासिद्धया तस्य कादाचित्कन्वोक्त्यसङ्गत्यात् । विवरणवाक्यस्य लक्षणपरत्वेन ज्ञानत्वावच्छेदेन तत्सम्बन्धवत्त्व प्रतिपादनतत्परत्वाच्च । ज्ञ।नस्य ज्ञातृसम्बन्धो नाम ज्ञातृभ्याष्यत्वम् । न चाप्रयोजकत्वम् । ज्ञानभावेऽपि ज्ञानोदयापत्तिरूपस्य तर्कस्य विद्यमानत्वात् । ज्ञातृसमवेतत्वं वा । यत्त ज्ञात्रसमवेतस्यापि ज्ञानस्या-
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१३२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति