विशिष्टाद्वैतसिद्धिः प्रथमः मिथो विभक्तत्वात् कल्पितत्वम् । अपि तु बाधितत्वात् । एतेन ‘अत एव बटादिकं सद्पे कल्पितम्, प्रत्येकं तदनुसिद्धत्वेन प्रतीयमानत्वात्। प्रत्येकं चन्द्रानुविद्धजलतरङ्गवत्, इति ब्रह्मसिद्धिकारोक्तमपि साधु ।” इत्येतदपि निरस्तम् । यदा सत्यं प्रतीयते तदा ‘सन्तमेनं ततो विदुः भूतानामीश्वरोऽपि सन् इत्यादाविव विद्यमानत्वाद्यात्मकधर्मरूपमेव हि तत् प्रतीयते । न त्वधिष्टानतया ब्रह्मरुपतया च पूर्वं ‘यत्तदद्रेश्य मित्यादिनाऽश्यत्वमुपपाद्य पुनरत्र ब्रह्मणः सर्वेन्द्रियगोचरत्वोपपादनं काममत्रभवतः शोभते । यदि शुद्धभिदं सद्यं ब्रह्म तर्हि तस्याती- न्द्रियदेवेनाधिष्ठानत्वं न घटते । अथाशुद्धं तथाऽपि तस्यापि कल्पितत्वात् घटादिकल्पनाधिष्टानवानुपपत्तिन्तवस्यैव । भूतले सन् घटः कुड्ये असन् इति पूमरलाधारसर्वयवहारविषयभूतं स सत्त्वं हि न ब्राह्मरमकं कथमपि भवितुमर्हति । (१२) अंशित्वम् । अथ पश्यतोहरस्यकाष्ठगतैरुक्तमनुमानान्तरं रक्षितुमन इदमाह- ‘चित्सुखाचयैस्तु अयं पट एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी । अंशित्वान् । इतरांशिवत्, इत्युक्तम् । तत्र तन्तुपदमुपादानपरम् । एतेनोपादाननिष्ठात्यन्ताभावप्रतियोगित्वलक्षणमिथ्यात्वसिद्धिः॥” इति। अत्र सिद्धयप्रयोजकत्वे पूर्ववत् स्थिते एव । बाधश्च । पक्षाप्रसिद्धिश्च । अयमिति हि एतद्देशकालसम्बन्धीत्यर्थः। पटश्च तस्मिन् काले तस्मिन् देशे नास्तीति साध्यते । अत इदमिष्टं भवतः । कालान्तरदेशान्तरा वृत्तित्वं सर्वसम्मतम् । अतोऽप्रसिद्ध एव पक्षः । अयं पट एतत्तन्तु- निष्ठात्यन्ताभावप्रतियोगी न । एतत्तन्वारब्धवान् । व्यतिरेकेण पटान्तरवत्, इति प्रतिसाधनं च । अत्राह । ‘सोपाधिकत्वादिदं प्रतिसाधनं हीनबलम् । 'यत्नें तत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वं तत्रै-
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१३५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति