पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ विशिष्टाद्वैतसिद्धिः प्रथमः कुतो न भवेत् ? अयोगोलकादौ आद्रेन्धनाभावस्य प्रत्यक्षसिद्धत्वेन तदनुमानं न सम्भवतीति चेन्न । भवत्सम्मतरीत्या सत्त्वस्येवाभाव स्यापि दुर्निरूपत्वात्तद्वगाहि प्रत्यक्षमसम्भवीत्येवं तर्कसन्ततेः सुभिक्षत्वात् । “दृश्यत्वादिनैव मिथ्यात्ववत् तस्यापि साधनात् तत् साधनव्यापक मपि’ इति वचनमुपहस्यम् । व्याहतेः । यदि उपाधित्वेनोद्भावितं दोषप्रयुक्तभानत्वं पक्षे साध्यावस्थं तर्हि तस्य पक्षे सन्दिग्धत्वात् साधनव्यापकत्वाभिधानं न युज्यते । अथ पक्षे सिद्धे तत् तहिं दृश्यत्वा दिनैव मिथ्यात्ववत् तस्य साधनमिति वचनं न युज्यत । ननु प्रथमं दृश्यत्वादिना दोषप्रयुक्तभानवं साध्यते । ततः परं मिथ्यात्वमिति सिद्धं तस्य साधनव्यापकत्वमिति चेन्न । तत्र मिथ्यात्वस्योपाधित्वात् । पक्षे तस्यासिद्धतया साधनाव्यापकत्वात् । साध्यव्यापकत्वात्र । अथो- भयमपि युगपत्साध्यते तर्हि परस्परांशे परस्परस्योपाधित्वमक्षतमेव । (१४) आभाससाम्यम् जगन्मिथ्यात्वानुमानं सवमाभासरूपमेव, न त्वाभाससमम् । अथापि नैवमिति निरूपयन् प्रत्यनुमानेषु दोषानाह । तत्र “विमतं प्रातिभासिकं दृश्यत्वान्” इत्यत्र यदुच्यते, जगतो व्यावहारिकसत्त्व बाधे व्यवहारानुपपत्तिरिति, तत्र जगतस्त्रैकालिकनिषेधविषयत्वे अनि त्यत्वव्यवहारानुपपत्तिरिति समानम् । न हि शुक्तिरूप्यमनित्यमिति केचिव्द्यवहरन्ति । व्यवहरन्ति च जगदनित्यमिति । “अनित्यमसुखं लोकम्" इति भगवता च गीयते । किञ्च मिथ्यात्वेऽपि व्यवहारानु पपत्तिस्तुल्य। शुक्तिरूप्येण व्यवहाराभावात् । मिथ्यात्वे प्रातिभासिक त्वस्यावर्जनीयत्वात् । मिथ्याभूतं हि वस्तु कालत्रयेऽपि न वर्तते, तस्य प्रतिभासमात्रशरीरत्वं विना किमन्यदपम्, येन प्रातिभासिकत्वं न