परिच्छेदः श्र भाससाम्यम् ३५ भवेत् । ननु मिथ्यात्वे समानेऽपि वस्तुरजतस्य व्यवहारौपयिकं रूप मस्ति । तेन तस्य शुक्तिरजतवन् न प्रतिभासमात्रशरीरत्वमिति चेन्न शुक्तिरजतस्यापि अविद्यापरिणामतया उत्पत्यभ्युपगमेन रूपविशेष वत्त्वान्, प्रतभासमात्ररूपत्वाभावात् । ननु तद्पं प्रतिभासमात्रो- पयोगि । न तु वस्तुरजतवत् व्यवहारोपयोगि । अतो वैलक्षण्यमिति चेन्न। बस्तुरजतस्यापि अविद्यापरिणामतया शुक्तिरजतवदेव व्यव हारोपयोगित्वस्य दुर्घटत्वात् । ननु दृश्यत एतत् । किं वयं कुर्म इति चेन्; किं दृश्यते ? वस्तुरजतस्य व्यवहारोपयोगित्वं अन्यस्य तदनुपयोगित्वं चेति चेन् साधु। दुरपह्नवोऽयं विशेषः किन्निबन्धन इति विमर्श एकं वस्तुसत् । अतो व्यवहारक्षमं भवति । अन्यतु असन् । अतो न तथेति वक्तव्यम् । तत्र असतो मिथ्यात्वं युक्तम् । तद्दृष्टान्तेन सतो मिथ्यात्वं कथं भवेन् । कथं तत्साधनोद्यमः क्रियते ? एतत्प्रतिबोधनाय ‘विमतं प्रातिभासिकं. दृश्यत्वात्" इति न्यायविद्भिः प्रातिभासिकत्वसाध्यकक अनुमानाभासो दर्शितः। प्रातिभासिकत्वं साध्यं निर्दिशतां व्यवहारानुपपत्तिप्रसञ्जन एव तात्पर्यम् । यदि शुक्तिरजतवन् स्वयं रजतस्यापि मिथ्यात्वं भवेत् तर्हि तद्वदेव प्रातिभासिकत्वं च भवेत् ततो व्यवहाराद्यनुपपत्तिश्च । तदत्र व्यवहारा नुपपत्युद्भावनं अनुपवं दर्शयिष्यमाणरीत्या ब्रह्ममिथ्यात्वानुमाने शून्यवादापत्त्युद्भावनवन् असमञ्जसमात क्षयम् । ननु व्रतंतरज्ञानबाध्यं शुक्तिरजतं प्रातिभासिकम् । तद्बाध्यं वस्तुरजतं व्यावहारिकमिति विशेष इति चेन्न । ज्ञानबाध्यत्वस्यैव प्रातिभासिकत्वव्यवहराक्षमत्वयोः प्रयोजकत्वात् । ब्रह्मतरज्ञान बाध्यत्वस्य तत्राकिञ्चित्करत्वात् । अन्यथा शुक्तीतरज्ञानाबाध्यत्वेन शुक्तिरजतस्यापि व्यावहारिकत्वप्रसङ्गात्, तस्मादप्रामाणिकाद्वैतस्था-
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१४०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति