परिच्छेदः आभाससाम्यम् २७ न हि प्रातिभासिकेन व्यवहारो घटते । व्यवहारोऽपि प्रातिभासिक इति चेन् तर्हि भवदीयाद्रेतस्थापनयनस्यापि प्रातिभासिकत्वात् तद्वि पयभूतमद्वैतमपि प्रातिभासिकमिति सिद्धमेतन् । दृष्टिसृष्टिवाश्च निराकरिष्यते । अथ 'ब्रह्म मिथ्या व्यवहारविषयत्वान्’ इत्यनुमानं प्रत्याह-व्रह्मणो मिथ्यस्वे शून्यचादापत्तिरिति । अत्रोच्यते । ‘अनुमानाभासेन प्रपञ्चमिथ्यात्वसाधनोद्यमो न शोभते । अन्यथाऽन्येनानुमनाभासेन शून्यवादस्य पि समर्थयितुं शक्यत्वान्’, इति ह्यत्र प्रतिवादिनस्तात्पर्यम्। एवं सति शून्यवादापत्तिरिति कथं तं प्रत्येवोच्यते । प्रपञ्चमिथ्यात्वे योगाचारमतप्रवेश।पत्तिरिति भवन्तं प्रति यदि केनचिदुच्येत तादृगिदं भवति । एतदुक्तं भवति । सन् असन् व्यावहारिकं प्रातिभासिकमित्येषां मिथो वैलक्षण्यं तावदिष्यते । तत्र सदसद्वयतिरिक्तद्वयवृत्ति दृश्यत्वादि भवता व्यावहारिकवस्तुमिथ्यात्वे हेतूक्रियते । एवमेव असभिन्न त्रितयवृत्ति व्यवहारविषयत्वं असद्विलक्षणत्वं च हेतूकृत्य ब्रह्मणोऽपि मिथ्यात्वानुमानं कुतो न भवितुमर्हति । द्वितयवर्तिनो वैलक्षण्यस्य यदि मिथ्यात्वप्रयोजकत्वं भवति, तत् त्रितयवर्तिनः कुतो न भवेत् । एवं सति शून्यवादप्रसङ्ग इति चेत् हेतुबलादापतन् शून्यवादोऽपि प्रामाणिकत्वाङ्गीकार्यं एव । न हि घटपटादिवस्तुसत्ताङ्गीकारे गौरव मिति प्रसूयनं तन्न प्रमपयतीति वक्तुं शक्यम् । तस्मात् शून्यवाद प्रसङ्गरूपः प्रतिकूलतकोऽत्र न प्रत्यनुमानदूषणम् शून्यवादप्रसङ्गरूपा- निष्ठप्रसजनतात्पर्येणैव तत्प्रयोगात् । किन्तु अप्रयोजकवमेव । व्यव हारविषयत्वमसद्विलक्षणत्वं चास्तु, मिथ्यात्वं मा भूदित्युक्ते हि न किञ्चित् सदुत्तरं वक्तुं शक्यम् । अप्रयोजकत्वस्य पारमार्थिकत्वात् । तथैवोभयविलक्षणत्वस्याप्यप्रयोजकत्वं पारमार्थिकम् । प्रपञ्चस्य ब्रह्म
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१४२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति