पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रस्यक्षवाधः ३१ पच्छेिदः वाच्यम् । तथापि कदाचिन् स्वप्रकाशाद्वितीयचैतन्यं घट इति । व्यवहारस्यापि प्रसङ्गात् । अयं घट इत्यस्य स्थाने ‘अयं कलशः इतिवत् । न च यदा कदाचिदपि तथा व्यवहारो भवति । वस्तुतस्तु सत्वमिति न क्कचित् स्वप्रकाशाद्वितीयचैतन्याभिधानं दृष्टम् । अतः कालसम्बन्धित्वादिकमेव सत्त्वमितवाच्यम् । तच त्रह्मण इव घटादेरप्यव्याहतमिति तत्त्वस्थितिर्वाध्या । अन्ये इदानीमत्र वर्त- मानो घट इत्येव प्रतीतिरिष्टाभवति । तथा वर्तमानत्वस्य च घटे साक्षादुपपन्नतया नीलो घट इत्यादिवन् अव्याहतं सामानाधिकरण्यं मिति न कुकल्पनायाः कस्याश्चिद्वकाश वर्तत इति तदेवं घटास्तित्व- प्रत्यक्षस्य घटमिथ्यात्वविरोधिसत्त्वावगाहित्वमन्तरा कथमपि प्रका रान्तरेणोपपादयितुमशक्यबान् तेन प्रबलेन बाधान् मिथ्यात्वानुमानं । नालमुदेतुमिति सिद्धम् । यत्तु-"निश्चितप्रामाण्यमेव प्रत्यहमितरवाधकं भवेन् । न चात्र प्रामाण्यं निश्चितम् । आगमविरोधान्, अनुमनविरोधान् , भावि बाधाभावानग्याच –३तः तदयुक्तम् । घटप्रयप्रामाण्यस्य सुनिश्चितवान् । न ह्यत्र कारणदोपः कश्चिन्विक्ष्यमाणोऽप्युपलभ्येत, उत्तरकालिको बाधो वा ! एवं सति तत्प्रामाण्यं प्रति किमपरं निधेयमस्ति । ‘यस्य च दुष्टं करणं यत्र च मिथ्येति स प्रत्ययः एव समीचीनः प्रत्ययो नतरः इत च शास्रतापयविदामुद्रांषः । भावे याधाभावानिणयाचत यदुक्तं तत् अत्यन्तदुघटस्वसिद्धान्तस्थापन- भरपीडितेन अहृदयमेवोक्तमिति प्रतीमः। प्रवृत्तिसामथ्र्येन सुप्रतिष्टि तत्वान् प्रामाण्यस्य निर्णीत एव हि भाविबाधाभात्र तत्र कथमनिर्णय उच्यते । अन्यथा उकाहरणार्थिनो घटदर्शनानन्तरं तदुपादाने प्रवृत्तिर्न स्यान् । बाधाभावानिर्णयान् । न हि सम्भावनामात्रेण तत्र प्रवृत्तिरिति अनुभवमनपह्चानेन वक्तुं शक्यम् । अनुमानमात्रं च