३२ विशिष्टाद्वैतसिद्धिः अथम एवं सयुच्छिद्यत । भाविबाधाभावानिर्णयेन व्याप्त्यनिश्चयान्। अथ क्रियासंवादेन प्रत्यनुप्रात्रयमाश्रित्य वह्नयौष्ण्यप्रत्यक्षस्य शैत्यानुमान बाधकत्वं भवतैवोच्यते । तत्कथं युज्येत यदि भाविबाधाभावानिर्णयेन प्रत्यक्ष दुर्वतं स्यात् । ननु शुक्तिरूप्यादौ यादृशो बाधः तादृशवाधा भावो घटादिप्रत्यक्ष निर्यात एव । न तत्रास्माकं विप्रतिपत्तिः । वेदान्तवाक्यजन्यचरमसाक्षात्कारेण तु यो बाधः तदभावानिर्णय इहोक्त इति चेन् उपहास्यमिदम् । अदुष्टकारणजन्यं अवाधितं च घटादिप्रत्यक्षी स्वविषयसत्तां निश्चाययत् तन्मिथ्यावानुमानं निरुन्ध इत्यातिष्ठामहे । तत्रेदं मिथ्यात्वं यदि ब्रह्मज्ञानवाध्यत्वरूपं विशिष्य गृह्यते तर्हि दृष्टन्ते साध्यवैकल्यम् । यदि तु सामान्यतो ज्ञानचाध्य त्वरूपं तन् तर्हि तद्विरोधिसत्त्वग्राहिप्रत्यक्षबाधो दुर्निवारः। अथो- च्यते—प्रत्यक्षावगतं सत्वं सप्रकारकज्ञानवाध्यत्वात्मकम्युक्तिरूप्यादि तुल्यमिथ्यास्वविरोधि ईदृशमिथ्यात्वविपयमनुमानं वाषेत । प्रकृते तु निष्प्रकारक चरमसाक्षात्कारांनवत्यत्वरूपमथ्यात्वस्य पर्यवसित- गत्या साध्यवान् प्रत्यक्षावगतसत्त्वस्य चैतदविरोधित्वान्न बाधप्रसङ्ग इति, तदत्ययुक्तम् । चरमसाक्षात्कारस्य कालान्तरे जायमानत्वेऽपि तद्धीनमिथ्यात्वस्य काललयसम्बन्धित्वान् सुदृढप्रत्यक्षावगतघटादि सत्वविरूद्धतया तवगाहिनोनुमानस्यासम्भवान् । भवदभिमत निष्प्रकारकचरमसाक्षात्कारस्याप्रसिद्धतया तद्ध्यत्वरूपे मिथ्यात्वे पर्यवसानासम्भवाच्च । तस्मात् भवित्रधाभावानिर्णयेन प्रत्यक्षस्य दौर्बल्याभिधानं निरूपकाणां न शोभते । सम्भावितसर्वकारणदोषा- भावनिश्चये प्रवृत्तिसंवादे च सम्पन्ने यत्र काप्यदृष्टः सर्वलोकविलक्षणः कश्चन बाधो भावीतीदं किं कस्यचिन् बुद्धिमाधिरोहेत् , यस्याभाव निर्णयः स्वप्रामाण्याय प्रत्यक्षेणापेक्षणीयः स्यात् । दुस्सिद्धान्तविष- वृक्षस्य अपरोऽयं पल्लवोफ़ेद इति तु विपश्चितो निश्चिन्वन्ति ।
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१४७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति