पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिछेदः जडत्वम ३३ यच आगमविरोधान् प्रत्यक्षप्रामाण्यं न निश्चितमिति, तन्न । प्रत्यक्षाविषय एव आगमप्रवृत्तेः। तथा च शास्त्रतात्पयविदामश्रण र्महर्षिजैमिनिः औत्पत्तिकसूत्रे–‘तस्य ज्ञानमुपदेशोऽव्यतिरेकश्वथै नुपलब्धेः इति । विद्युतं चेदं पार्थसारथिमिश्रेण-‘न च साक्षाद् बाधक्रमस्तोयव्यतिरेकशब्देनोच्यते । अनुपलब्धार्थत्वाच्च नानुवाद लक्षणमप्रामाण्यम स्तीति “अर्थेऽनुपलब्धे इत्यनेनोक्तम् ।–” इति । अनेन, ‘यल्लोके प्रत्यक्षादिना अस्तोति वा नास्तीति वा निश्चितं न तत्र शास्त्रं प्रवर्तते । अस्तीति निश्चितेऽर्थे प्रवृत्तौ अनुवादतयाऽ- प्रामाण्यापत्तेः । नास्तीति निश्चितेऽर्थे प्रवृत्तौ बाधितविषयत्वेना- प्रामाण्यापत्तेः’ इति हि स्पष्टं प्रदर्शितं भवति । “शास्त्रं शब्दविज्ञा नात्रसन्निकृष्टेऽर्थे विज्ञानम्" इति शाबरेण भाष्येण ‘असन्निकृष्ट वाचा च द्वयमत्र जिहासितम् । ताद्व्येण परिच्छि तिस्तद्विपर्य यतोऽपि वा । इति तद्विबरणपरेण कौमारिलेन वर्तिकेन च तद् विशदीकृतम् । तस्मात् प्रत्यक्षनिश्चितार्थेविरुद्धमर्थे शास्त्रं बोधयती येतत् शास्त्रकृतामसम्मतम् । प्रत्यक्षादिना प्राप्तमर्थं तथैव कृत्वा तत्राविदितमंशं पूरयति शास्त्रमिति तु स्थितिः । एतदाहुराचार्य- चरणाः विदितमनुवदन्तो विश्वमेतद्यथावद् विधति निगमान्ताः केवलं यन्मयत्वम् । अविदितबहुभूमा नित्यमन्तर्वधम् हयवरवदनोऽसौ सन्निधिः सन्निधिं नः । इति । एवं प्रत्यक्षविषयपरिहारेणैव आगमस्य प्रवृत्तेः एतद्विरोधेन तस्य प्रामाण्यमनिश्चितमित्येतन्न युज्यते । यत्तु चन्द्रतारकादिपरि माणप्रत्यक्षे अनुमानागमविरोधेनाप्रामाण्यं दृश्यत इति, तन्न । महदपि वस्तु दूरवदोषेण अल्पमिव दृश्यत इति हि शतशः प्रत्यक्षावगतमेतत् ।