परिच्छेदः ३५ स्यात् । लिङ्गाभासापि वह्निमति वह्निप्रमादर्शनात्-इति तदयुक्तम् । अनुमितेः सर्वत्र स्वप्रामण्याय व्याप्तिधीप्रामाण्यापेक्षित्वनियमात् । लिङ्गाभासाद्वहिमति वह्निज्ञानस्य प्रमात्वं यादृच्छिकम् । अनुमि तित्वेन तु तद् ज्ञानमप्रमाणमेव । तदुक्तमाचार्यचरणैः— बामारोपितधूमेन यादृच्छिकाग्निसिद्धिस्तु न श्रमसामथ्र्या- धना । अन्यथा सर्वत्र तद्भ्रमे तत्सिद्धिप्रसङ्गात् । अत एव हि तत्र प्रामाण्यमपि नाङ्गक्रियते इति । यदपि “परीक्षा हि प्रवृत्तिसंवादविसं वदभवदोपाभावादिरूपा । तया च स्वसमानदेशकालीनं विषया बाध्यत्वं प्रामाण्यस्य व्यवस्थाप्यते, धूमेन स्वसम।नदेशकलेन वह्निरिव । तथा च व्यवहारदशामात्राबाध्यत्वं देहात्मैक्यसाधारणं व्यवस्थितमिति कथमत्यन्तावध्यत्वाभावग्राहकागमानुमानयोःप्रवृत्तिर्न स्यान्’ इति, तदपि दत्तोत्तरम् । यस्मिन् देशे यस्मिन् काले यो विषयो यथा गृहीतः तस्मिन् देशे तस्मिन् काले तस्य तथाविधस्यात्यन्ता बाध्यत्वं हि परीक्षया व्यवस्थाप्यते । भवदभिमतो त्रिकालबाध्य- त्वविषयी अत एव तस्मिन् देशे तस्मिन् काले तस्य तथाविधस्य विषयस्य बाध्यत्वमप्यवगाहमानो अनुमानागमौ कथं प्रवर्तेयाताम् । यद्यपि वाधकस्य देशकालौ भिद्यते तथाऽपि तत्फलस्य बाधस्य सर्वद्देशकालवन्निसर्ववस्तुविषयत्वात् अद्यतनपरीक्षितप्रत्यक्षप्राह्यार्थ विषयत्वमपि भवतीति तदवगाहिनोरनुमानागमयोः प्रवृत्तिर्नेव सम्भ वति । परोक्षया व्यवहारदशामात्राबाध्यत्वं व्यवस्थाप्यते । तेन पर मार्थदशाबाध्यत्वं न विरुध्यते’ इति न शक्यं वक्तुम् । न हि व्यवहार दशाऽतिरिक्ता परमार्थदशा काचिद्यापि सिद्धा। यदि परमार्थ दशाबाध्यत्वं विशिष्य साध्येत तर्हि तस्य दृष्टान्ते न सद्भावः । यदि तु सामान्यतः त्रिकालबध्यत्वं साध्यते तर्हि उक्तरीत्या बाधो दुरुद्धरः। इदमपि पूर्वमेवोक्तम् । घटादिप्रत्यक्षप्रामाण्यं न देहात्मैक्यप्रत्य
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१५०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति