पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः जडत्वम् ३७ कल्पे दृष्टविरोधः। द्वितीये स्वसिद्धान्तहानिः । अत ऋजु उत्तरं किमपि वक्तुमशक्नुवन् अन्यन् किमप्याह, अथापि निरूपकैर्विमर्श नीयम् , शशे शृङ्गिस्यानुमाने प्रत्यक्ष याधो भवति न वा। भवति चेन् तथैव मिथ्यात्वानुमानेऽपि भवेत् । न चेन् कुतो न । अन्यथा हि वह्नौ शैत्यानुमानेऽपि न स्यात् । न चानयोर्विशेषः कश्चिदस्ति । नन्व योग्यशृङ्गसाधने प्रत्यक्ष वाधो न सम्भवतीति चेत् तत्र कामं मा सम्भूत्। योग्यऽङ्गसाधने का वाता । तत्र हि बाध एव दोषो वाच्यः । ननु तत्र व्याप्तिग्राहकस्य तर्कस्य आभासस्यं दोष इति चेत्, स कथं ज्ञायते किं बाधेनैव उतान्येन केनचित् , अन्येनेति चेन्न । तदुदशनान् । बTघ. नेति चेन् सुष्ठूक्तम् । तथा च समीचीनस्वेन गृहीतेनापि तक्रेण सहित मनुमानं बाधित्वा तर्कस्याप्याभासत्वमापादयति प्रबलं प्रत्यक्षमिति सिद्धम् । एवमेव जगन्मिथ्यात्वानुमानेऽपीति द्रष्टव्यम् । यत्तु ‘‘अयोग्य शृङ्गादिसाधने प्रत्यक्षवाधस्यासम्भवेन तत्र व्याप्ति ग्राहकतकऽवभासत्यं त्वयाऽपि बक्तरूयम’ इति, तदयुक्तम् । प्रत्यक्ष- बाधासम्भवेऽप्यनुमानस्याभासस्वं वक्तव्यमिति निर्बन्धाभावेन भवत्पक्ष प्रत्यक्षसिद्धसत्वाविरोधिमिथ्यावसिद्धेरिव प्रत्यक्षसिद्धयोग्यऽङ्गरा- हित्याविरोध्ययोग्यथुङ्गवत्वसिद्धेरैष्टु युक्तत्वात् , अस्मत्पक्षे तु योग्यऽङ्गसाधने बाधेनैवाभासत्वस्य सुवचत्वात्, अयोग्यश्रृंगसाधने दृष्टान्ते साध्यवैकल्प्यस्य स्फुटत्वात् । असमीचीनदर्शनविषयत्वेन शुक्तिरूप्यस्य मिथ्यात्वे स्थिते हठादेव सामान्यतो दृश्यत्वस्य मिथ्या त्वप्रयोजकत्वं वदतो हि भवतः प्र गोधन योरहःसाय च केवलं अनुमानाभासांऽयमनुमानवप्रयुक्तः । अश्वदावशन्न पशुवस्यथ्Iङ्ग त्वव्याप्यत्वस्यैवासिद्धेः। तत्रोभाभ्यां वक्तव्यं किमस्ति । यदि दृश्यत्वेन जगतो बाध्यत्वं भवेत् तर्हि तद्वदेव पशुत्वेन शशस्यायोग्यश्रुङ्गववं भवेत् । यदि त्वस्याभासत्वं तहिं तद्वदेव दृश्यत्वानुमानस्याप्याभासत्वं