पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जडत्वम् ३६ ननु प्राहयत्येव सा तदांये । उक्तं हि पूव ‘तया च स्वसमानदेश कालीनविषयाबाध्यत्वं प्रामाण्यस्य व्यवस्थाप्यते धूमेन स्वसमानदेश- झालीनवह्निरिव इतीति चेन्नैवम् । क्षित्यक्षुरादिना कार्येणेश्वरानुमाने तद्देशकालीनेश्वरमात्रसिद्धिरिति प्रसङ्गन् , तत्तद्वस्तुभेदेन हि तत्तत्स्व- भावनिर्धारणं भवति । न हि नदीप्रवाहेण तद्देशकालीनैव वृष्टिरनु मीयते । तेन प्रत्यक्षावगतं एतद्वस्तु कदापि न बाधिष्यत इत्येव परी क्षया निश्चयो भवति । अन्यथा अद्यत्र सत्वेन निश्चितोऽपि घटः पुनः कदाचिस्मिन्नेव कालेऽस्मिन्नेव देशेऽसत्वेन निश्चयेतेति शङ्का परीक्षानन्तरमुच्येत । न चैवं कस्यचिन् कदाचिद्भवति । ज्ञानेन च सिद्धयन् घटः तद्देशकालीन एव सिद्धम् । तथा च जितं क्षणिकवादेन । किञ्च तद्देशकालीनतयऽपि सिद्धयन् घटस्तात्विक एव हि सिद्धयति । न चात्रैतागमेन प्रपञ्चस्य तात्विकभाव इति विलक्षणः कश्चिद् वोध्यते येन प्रत्यक्षावगतं तत्सत्त्रं न तान्त्रिकमिति निर्धार्येत । शुक्तिरूप्यं मिथ्या तद्विलक्षणतया घटादिकं सत्यमिति परीक्षयाऽव धृतत्वान् । सत्यत्वस्यैव तात्विकस्वरूपत्वन् । तदतिरिक्तरूपत्वस्या ग्रहणान् । तथा च यादृशं सर्वं प्रपञ्चस्य प्रत्यक्षादिनाऽवगतं तादृश स्यैव सत्वस्याभावोऽद्वैतागमेन बोधनीय इति विरोधे दुष्परिहरे धूम एवाग्ने रित्यादेरिचास्याष्यर्थान्तरपरत्वमवर्जनीयम् । अथोच्यते-'अद्वैतागमः ‘‘व्रतैकमेवास्ति, तदन्यत् किमपि नास्ति’, इति बोधयति । अनेन यथा ब्रह्मास्ति तथा प्रपञ्चो नास्तीति । गम्यते । एवं ब्रह्मसत्वं यादृशं तादृशसत्वभाव एव प्रपञ्चस्य तात्वि 66, कचत्ताभावः । इत्थमागमेनावगते प्रत्यक्षावगतं प्रपञ्चसत्वं व्यवहारो पयोगितया तावन्मात्ररूपं न पारमार्थिकमिति व्यवतिष्ठते ’ इति तन्न । कीदृशं ब्रह्म सत्वमभिप्रेत्येदमुच्यते । यदि कालत्रयात्रध्यत्वं तदपि दिनेचनोय । किं कालत्रयेऽपि सर्वं तत् अथवा ययाचिर्