पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः प्रत्यक्षबाधः ४७ श्रीणीतेति निदशनपुरस्सरं एवं भवतैचोत्तरत्रोक्तत्वाच्च । प्रत्यक्षदौर्बल्यापादनव्यसनितया पुनरपि वृथैव बह्वाह । तत्र तावत् नायं सर्प इत्यातोपदेशस्य प्रत्यक्षमूलत्वनिश्चये सत्येव रज्जुसर्प- प्रत्यक्षबाधकस्वं, नान्यथा । तथा चिरनिश्चेष्टत्वप्राप्यन्तरास्कन्द- नाप्रित्यक्षमूलत्वादेव वायं सर्षे इत्यनुमानस्यापि तद्वाधकत्वम् । शुक्तिरजदप्रत्यक्षबाधकानुमानस्थलेऽप्येवं द्रष्टत्रयम् । पीतशद्वप्रस्यलं अप्रमाणतया। गृह्यमाणमेवोपद्यते । शङ्कश्चेतिनः पूर्वप्रत्यक्षतः सुनि द्धितत्वात् । आञ्जन्मसिद्धकामलस्य तु पुरूषस्य प्रस्यक्षमूलत्वेन गृहीता देव आप्तोपदेत् स्वप्रत्यक्षबाधः। नीलं नभः इति अस्मन्मते प्रमैव । नान्येन तद्वधः । तन्नीरूपववादिनां तु सन्निकर्षे नीरूपत्वग्रहणात दूरे नीलवधीर्जायमाना सन्दिग्धप्रामाण्यैव जायत इति तत्र युक्ति- अवकाशं लभते ! अहमिहैवास्मि सदने जानन इत्यप जीवाणुत्ववादि नामस्माकं प्रमेव । न च तदणुस्त्रे युगपत् पादशिरोऽवच्छेदेन सुख खानुभवविरोधः ! धमभूतज्ञानेन कृत्स्नशरीरव्याप्तेः मम शरीरमित्यप्यनुभवस्य सर्वान् गौरोहमिति शरीरभेदनिश्चयात्मकः प्रत्ययो न भवतीत्युक्तम् । यत्त गौरोऽहमिति शरीराभेदप्रश्यते जाग्रति मम शरीरमिति प्रर्यक्षोपपत्तेर्नास्त्यवकाश इति । तत्र विपरिवर्तः किं न स्यात् । तथा च जपासंसगिंस्फटिकारुणिमवददं गौरत्वमिति निश्चयः प्रत्यक्षान्तरमूल इति किमनुपपन्नम् । ज्चालैक्यप्रत्यक्षेऽपि आश्रयाशस्य आश्रयनाशकत्वं आश्रयनाशा- नन्तरं स्वनाशश्च दृढप्रत्यक्षगृहीतमिति वर्तिनाशस्नेहक्षयप्रत्यक्षानन्तरं नन्मूलकानुनानोदयात् अन्ततः प्रत्यक्षमेव बाधकवनावतष्ठत इति विभाव्यम् । यच्च चन्द्रप्रादेशिकत्वप्रत्यक्षे ब्रह्मास्त्रयति, तदपि यमेहमात्रमिति, प्रागेव व्यखितम् । दूरत्वदोषेणेदमल्पस्वभानं भवितुमर्हतीति धियः सद्यः एव जातस्वेन तस्य प्रस्यक्षस्य स्वगृहीत-