पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६ विशिष्ट सिद्धिः प्रथमः

तत्वे उक्ते न परं त एव, इह विद्यमानं सर्वं तत्रैव प्रतिष्ठितम अतत्प्र- तिष्ठं किमपि नास्तीति प्रतिपादनाय मन्त्रस्य प्रवृत्तत्वान् इह ब्रह्मणि नास्तीत्युक्ते अन्यत्रास्तीति विरुद्धार्थप्रतीते । इह यन् कल्पितं तन्ना- स्तीति विववक्षायामध्याहारापत्तेः । नास्तीत्यस्य कल्पितमित्यारे लक्षणापत्तेः । तदिचं श्रुतिः न प्रपञ्चमिथ्यात्वपरा | अन्या अध्येवमेवेति ज्ञेयम् । तथा च लौकिकप्रमाणनिश्चितं प्रपञ्चं तथैव कृत्वा तत्सृष्टृत्व- रजकत्वस्वामित्वेश्वरत्वादिमिर्ब्रह्मणोऽपारं महिमानं तारण प्रतिपाद- यताऽऽगमेन दुरुद्धरी बाधः प्रपञ्चमिथ्यात्वानुमानस्येति सिद्धम् । नाभाव उनलब्धेः, वैधर्म्याच न स्वप्नादिवत्, इति स्वाप्रार्थविलक्षण - बाह्यार्थसत्त्वसाधनपरसूत्रविरुद्धवेदं प्रपञ्चमिथ्यात्वसाधनम् | यत्तु ‘सता ब्रह्मणो नाभावः न शून्यत्वं, उपत्तव्धेः सत्त्वेन प्रमाणाप्रतीतेः' इति स्वत- न्त्रसूत्रार्थवर्णनं तत् पराभ्युगतार्थदूषणपरेऽस्मिन् पादे सङ्गत्यभावात् अहृ- दयमपत्र्याख्यानमित्येतत् सर्वसुगमम् । यच्च अर्थान्तरमुक्तं नाभावः ज्ञानातिरिक्तस्यार्थस्य नासत्त्वम् | किन्तु "व्ययहारदशाऽबाध्यार्थक्रिया- कारित्वरूपं सत्यमेव | उपलब्धेः ज्ञानातिरेकेण प्रमाणैरुपलव्धेः इति तत्र नासत्त्वमिति पूर्वपक्षप्रतिपक्षतया किन्तु सत्त्वमेव इत्येतावदेव वक्तव्यम् । तत्र व्यवहारदशेत्यादि विशेषणदानं तु अप्रामाणिकं स्वद- र्शन श्रद्धा मात्रविजृम्भितम् । 'स्वप्नवैधयक्तिर्वाध्यत्वाद्यपाधिप्रदर्शनाय इति यदुक्तं तत् भवदुक्तमिथ्यात्वानुमानेऽपि तुल्यम् । यदि हि अबाध्य - त्त्वान् बाह्यार्थाः सन्ति न तु स्वाप्रार्थवन्न सन्ति, तर्हि तथैव ते परमार्थ- सन्तः न तु शुक्तिरूप्यवन्मिभ्येति कुतो नं भवति । १६ असतः साधकत्वम् | सर्वमियात्ववादिनां तात्त्विकप्रमाणाभावात् स्वाभिमतार्थसिद्धिः कथमिति च वक्तव्यम् | दृश्यत्वादिहेतवो हि न वस्तुसन्तः । तैः कथं साध्यप्रमितिः । यत्तु धूलीपटले धूमभ्रमादपि वह्नयनुमितिप्रमा दृश्यते