पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः असतः साधकत्वम् ६७ इति तत् कामं तथा । ततः किम् | भ्रमत्वग्रहणे हि उत्पन्नाऽनुमितिर - प्रमेति बुद्धिर्भवति । तथा प्रकृतेऽपि दृश्यत्वं वस्तुती नास्तीति ग्रहणसम- नन्तरं अनुमित्यप्रामाण्यग्रहमवत्यंभावि | याच्छिकं तत्र प्रमात्वं सन्नि- हितैः प्रत्यक्षात् , ऋन्यैः आप्तवचनाच्च गम्यते | हेतुबलात्तु अप्रमात्वमेव। प्रकृते तु प्रत्यक्षस्य वाऽऽप्रवचनस्य वाऽभावात् मिथ्याहेतु जन्याऽनुमितिः यादृच्छिकस्यापि प्रमात्वस्य प्रसङ्गविरहेण कंवलमप्रमैव भवति । ननु दृश्यत्वं न शुक्तिरूप्यादिवन्मिथ्या | व्यावहारिकसत्त्वाभ्युप- गमात्, इति चेन्न । अविशेपस्याक्तत्वात् । शुक्तिरूप्यदृष्टान्तेन तादृश- मेव हि मिथ्यात्वं सर्वेषा वस्तूनां भवद्भिः साध्यते | ज्ञानबाध्यत्वे सर्वथा दुर्वचं च शुक्तिरूप्यत्रैलक्षण्यम् | अर्थक्रियाकारित्वं हि विशेषो दृश्यत इति चेन्न | स्वामानामाण्यवांनां तस्यामवस्थायामर्थक्रियाकारित्वदर्श- नान् । न हि तेन तेषा कञ्चन विशेषो भवति । ननु ब्रह्मज्ञानेतराबाध्यत्वं विशेष इति चेन्न । अधिष्ठान ज्ञानेतराबाध्यत्वस्य मिथ्यावस्तुषु सर्वेषु विद्यमानत्त्रेन तस्य विशेपानापादकत्वात् । अन्यथा शुक्तिज्ञानेतराबाध्य- त्वेन शुक्तिरूपयेऽपि कस्यचन विशेषस्यापत्तेः । अतः शुक्तिरूप्यवन्मि- ध्यात्वं वा, अनित्यत्वेऽपि ब्रह्मवत् सत्त्वं वा प्रपञ्चस्यांग्युपगन्तव्यम् । न तु तृतीयः कश्चन प्रकारः सम्भवति, यो व्यावहारिकसत्त्वमितिं पृथक् समाख्यायेतेति विभावयन्तु भवन्तः । असताऽध्यर्थेन अर्थान्तरसिद्धिर्भवत्येव यथा प्रतिबिम्बेन बिम्बसिद्धिरिति चेत् । न । प्रतिबिम्बस्य असत्त्वाभावात् । दोषवशान् स्वच्छद्रव्यागतवर्तितया गृह्यमाणो बिम्ब एव हि प्रतिविम्बः । स सन्नेव | स्वच्छद्रव्यान्तर्वतित्वं तस्य नास्ति । तथा च तेन रूपेण गृह्यमाणः प्रति- बिम्बोऽसनेवेति चेन् । तथापि तो धर्मिणः असता धर्मेणाव- च्छिन्नस्य अन्वयव्यतिरेकबलान् सावकत्वं अभ्युपगम्यते । न हि दृष्टेऽनु- पपन्नं नाम | द्विचन्द्रदर्शनवतो तेन हेतुना नेत्रदोषोऽनुमीयते । अत्र