परिच्छेदः असतः साधकत्वम यत्तु विषयस्योपलक्षणत्वे तेन ज्ञानगतधर्मविशेषोपस्थापनप्रसङ्ग- भीतेन विशेषणत्ववदुपलक्षणत्वमपि नाभ्युपगम्यते । किन्तूपाधित्वमि- त्युक्तं, तन्न विचारसहम् । सर्पज्ञानं भयजनकम् । तत्र स्वरूपतः सन्तं आरोपितं वा सर्प विषयीकुर्वद् ज्ञानं सर्पज्ञानमित्युच्यते । तत्र सर्प- स्यापि सत्त्वेन भयजनकत्वे विवक्षिते विशेषणत्वम् । असत्त्वेन अवि- वक्षिते उपलक्षणत्वम्। तत्र कस्तृतीयः प्रकारः | पङ्कजादिपदप्रयोगस्थ- लेषु निदर्शितेषु शब्दानुपात्तस्यैव पद्मत्वादेर्धर्मस्योपाधित्वं दृश्यते । न हि तथा प्रकृते ज्ञानं भयकारणमित्युक्ते स्वयं सर्पो व्यावर्तको भवतीति सुवचम् । तद्ज्ञान एव ज्ञानशब्दस्य प्राचीनप्रयोगाभावेन तस्य स्वय- मुपस्थितेरसम्भवात् । शब्दोपात्ते च तरिमन विशेषरगत्वोपलक्षणत्वाति- रित्तस्य उपाधित्वाख्यस्याकारस्य प्रत्येतुमशक्यत्वात् । उपाधित्वसम्भ- वेऽपि तेनानि रूपेणासतो जनक्त्वं नास्तीति तु न विस्मतंव्यम् । वस्तु- तस्तु स्वरूपतो यत्र वैशिष्ट्य तत्रैव विशेषत्वोपलगत्त्वविकल्पः । यत्र तु विषयतया, तत्र तत्प्रसङ्ग एव नास्तीति वोध्यम् । यच्च 'ज्ञानस्य भयादिजनकत्वे सर्पाद्यवच्छिन्नत्वमेव कारणतादच्छे- दकमास्थेयम् | ज्ञानत्वेन जनकत्वेऽतिप्रसङ्गात् । तथा मिथ्यावस्त्ववच्छ- त्वकारेण ज्ञानस्य मिथ्यात्वान् भ्रमस्थले ज्ञानमात्रस्य जनक्त्वेऽपि मिथ्याभूतस्य जनकत्वमागतमेव ।' इति तदपि न । सत्वमिथ्यासावा- रण्येन सर्पावगाहित्वमात्रस्य कारणतावच्छेदत्वात् । भ्रमस्थलेऽपि विषयमिथ्यात्वं हि तदानीं न गृह्यते । तद्ग्रहणे भयोत्पत्यनुपपत्तेः । न च वस्तुतो मिथ्याभूतसर्पविषयत्वात् ज्ञानस्वरूपस्य मिथ्यात्वम् मा भूत् मिथ्यारजताधिष्ठानत्वन शुक्तिस्वरूपस्य मिथ्यात्वम् । प्रपश्चानुबन्धि त्वेन च ब्रह्मणः। ज्ञानस्यामिथ्यात्वे विषयस्य कथं मिथ्यात्वमिति चेत् काऽञानुपपत्तिः । नेदं रजतमिति बाधात् विषयो मिथ्या | रजतज्ञानं मे नोत्पन्न मित्येवंरूपस्य बाधस्य विरहात् ज्ञानं न मिथ्या | ● ७१
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१८६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति